________________
४०२
ज्ञानार्णवः
[२२.१८1164 ) तस्यैवाविचलं सौख्यं तस्यैव पदमव्ययम् ।
तस्यैव बन्धविश्लेषः समत्वं यस्य योगिनः ॥१८ 1165 ) यस्य हेयं न चादेयं जगद्विश्वं चराचरम् ।
स्यात्तस्यैव मुनेः साक्षाच्छुभाशुभमलक्षयः ॥१९॥ तथा हि। 1166 ) शाम्यन्ति जन्तवः क्रूरा बद्धवैराः परस्परम् ।
अपि स्वार्थप्रवृत्तस्य मुनेः साम्यप्रभावतः ॥२०
1164 ) तस्यैवाविचलं-यस्य योगिनः समत्वं समभावः, तस्यैव अविचलं निश्चलं सौख्यम् । तस्यैव पदम् अविनाशि अव्ययं मोक्षपदम् । तस्यैव बन्धविश्लेषः बन्धवियोगः । इति सूत्रार्थः ॥१८॥ अथ जगद्धेयोपादेयाभावेन शुभाशुभभावमाह ।
1165 ) यस्य हेयं यस्य मुनेः जगत् हेयं न। च पुनः। जगत् उपादेयं ग्राह्यं न स्यात् । कीदृशम् । विश्वं समस्तम् । पुनः कीदृशम् । चराचरं त्रसस्थावरम् । तस्यैव मुनेः साक्षात्प्रकारेण शुभाशुभमलक्षयः शुभकर्माशुभकर्ममलनाशः स्यात् । इति सूत्रार्थः ।।१९।। अथ मुनेः साम्यभावप्रभावमाह । तथा हि दर्शयति ।
__1166 ) शाम्यन्ति-जन्तवः प्राणिनः शाम्यन्ति उपशमं प्राप्नुवन्ति । कीदृशा जन्तवः । क्रूराः क्रूरकर्माणः । पुनः कीदृशाः । परस्परमन्योन्यं बद्धवैराः संधितवैराः। कस्मात् । मुनेः । साम्यप्रभावतः समताप्रभावात् । अपि निश्चये। कीदृशस्य मुनेः । स्वार्थे आत्महिते प्रवृत्तस्य प्रवृत्ति कुर्वतः । इति सूत्रार्थः ।।२०।। अथ समतावलम्बिसंयोगादन्योन्यं प्राणिनां प्रीतिर्भवतीत्याह।
जिस योगीके समताभाव है उसीके स्थिर सुख, उसीके अविनश्वर पद और उसीके बन्धका अभाव होता है ।।१८।।
जिस मुनिके लिए चर (स ) व अचर (स्थावर एवं अन्य अचेतन पदार्थ) पदार्थोंसे व्याप्त यह समस्त संसार न हेय है और न आदेय (ग्राह्य ) है उसीके साक्षात् शुभ और अशुभरूप कर्म-मलका क्षय होता है। तात्पर्य यह कि जिस मुनिके राग-द्वेष बुद्धिके नष्ट हो
ई भी परपदार्थ न ग्रहण करनेके लिए शेष रहा है और छोड़नेके लिए भी शेष रहा है उसके पुण्य और पापरूप दोनों प्रकारके कर्मकी निर्जरा होती है ॥१९॥
आगे इसीको स्पष्ट किया जाता है-अपने आत्मप्रयोजनकी सिद्धिमें प्रवृत्त हुए मुनिके साम्यभावके प्रभावसे परस्परमें वैरभावको रखनेवाले दुष्ट जीव शान्तिको प्राप्त होते हैंजातिगत दुष्ट स्वभावको छोड़ देते हैं ॥२०॥
जानेर
१. PM L तथा हि, F तद्यथा। २. All others except P स्वार्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org .