________________
३८६ ज्ञानार्णवः
[२१.४I110 ) आत्माधीनमपि स्वान्तं सद्यो रागैः कलक्यते ।
अस्ततन्तैरतः पूर्वमत्र यत्नो विधीयताम् ॥४ 1111 ) अयत्नेनापि जायन्ते चित्तभूमौ शरीरिणाम् ।
रागादयः स्वभावोत्थज्ञानराज्याङ्गघातकाः ॥५ 1112 ) इन्द्रियार्थमपाकृत्य स्वतत्त्वमवलम्बते ।
यदि योगी तथाप्येते छलयन्ति मुहुर्मनः ॥६ 1113 ) क्वचिन्मूढं क्वचिद्भ्रान्तं क्वचिद्भीतं क्वचिद्रूतम् ।
शङ्कितं च क्वचित्क्लिष्टं रागाद्यैः क्रियते मनः ।।७ 1110 ) आत्माधीनमपि-यदि स्वान्तं चित्तम् आत्माधीनम् आत्मलीनं क्रियते तथापि रागैः स्वान्तं सद्यः शीघ्र कलङ्कयते मलिनीक्रियते । अतः कारणात् पूर्वम् अस्ततन्द्रैरनालस्यैरत्र रागादिजये यत्नो विधीयतां क्रियताम् । इति सूत्रार्थः ।।४।। अथ रागादीनां स्वभावमाह ।
1111 ) अयत्नेनापि-रागादयः शरीरिणां चित्तभूमौ मनोभूमिकायाम् अयत्नेनापि यत्नं विनापि जायन्ते । कीदृशा रागादयः । स्वभावोत्थज्ञानराज्याङ्गघातकाः स्वभावजनितज्ञानसाम्राज्याङ्गघातकाः विनाशकाः । इति सूत्रार्थः ।।५।। अथ रागादयो योगिनां मनः चालयन्ति ।
____1112 ) इन्द्रियार्थम्-यदि योगी स्वतत्त्वं स्वस्वरूपमवलम्बते आश्रयति । किं कृत्वा । इन्द्रियार्थान्" इन्द्रियव्यापारान् अपाकृत्य तिरस्कृत्य । तथापि इन्द्रियार्थानपाकरणे ऽपि एते पूर्वोक्ता रागादयः मुहुर्वारंवारं मनः छलयन्ति । इन्द्रियविषयेषु [ मनसः ] प्रवृत्ति कुर्वन्ति । इति सूत्रार्थः ॥६॥ अथ मनसो रागाद्यैः क्लिश्यमानत्वमाह ।
1113 ) क्वचिन्मूढं-रागाद्यैर्मनः एतादृशं क्रियते । कीदृशम् । क्वचिन्मूढं मूच्छितं क्रियते । क्वचिद् भ्रान्तं रागा_विपरीतमति क्रियते। क्वचिद् भीतं भयभ्रान्तं क्रियते । क्वचिद् द्रुतं व्याधि
अपने अधीन हुआ भी वह मन रागादिकोंके द्वारा शीघ्र ही मलिन कर दिया जाता है। इसलिए मुमुक्षु मुनियोंको प्रथमतः आलस्यको छोड़कर उन रागादिकोंके विषयमें ही प्रयत्न करना चाहिए ॥४॥
स्वभावसे उत्पन्न होकर ज्ञानरूप राज्यके अंगोंका घात करनेवाले वे रागादि प्राणियोंकी मनरूप भूमिमें बिना किसी प्रयत्नके ही उत्पन्न हुआ करते हैं ।।५।।
__ यदि योगी इन्द्रियविषयको दूर करके आत्मतत्त्वका आश्रय लेता है तो भी ये रागादि उस मनको बार-बार ठगते हैं-मलिन करते हैं ॥६॥
रागादिक उस मनको कहींपर मुग्ध, कहींपर भ्रान्तिसंयुक्त, कहींपर भयभीत, कहींपर रोता हुआ ( अथवा द्रुत = पीडित ) कहींपर शंकायुक्त और कहींपर क्लेशसे परिपूर्ण किया करते हैं ॥७॥
१ J स्वभावोत्था । २. All others except P इन्द्रियार्थानपा। ३. M मवलम्ब्यते । ४. JY मुहर्महः । ५. M L क्वचिद्रुतम्, N क्वचिद् ध्रुवम्, others क्वचिद्रतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org