________________
३८२
[२०.३०
ज्ञानार्णवः 1102 ) अपि लोकत्रयैश्वर्य सर्वाक्षप्रीणनक्षमम् ।
भजत्यचिन्त्यवीर्यो ऽयं चित्तदैत्यो निरङ्कुशः ॥३० 1103 ) शमश्रुतयमोपेता जिताक्षाः शंसितव्रताः ।
विदन्त्यनिर्जितस्वान्ताः स्वस्वरूपं न योगिनः ।।३१ 1104 ) विलीनविषयं शान्तं निःसङ्गं त्यक्तविक्रियम् ।
स्वस्थं कृत्वा मनः प्राप्तं मुनिभिः पदमव्ययम् ॥३२
____1102 ) अपि लोक-अथ चित्तदैत्यः लोकत्रयैश्वर्यमपि भजति । कीदृशम् । सर्वाक्षप्रीणनक्षम सर्वेन्द्रियहर्षोत्पादकम् । कीदृशः चित्तदैत्यः । अचिन्त्यवीर्यः अनन्तपराक्रमः । पुनः कीदृशः । निरङ्कशः अङ्कशरहितः । इति सूत्रार्थः ।।३०।। अथाजितस्वान्ता आत्मस्वरूपं न विदन्तीत्याह ।
1103 ) शमश्रुत-अनिर्जितस्वान्ता अजितचित्ताः । स्वस्वरूपम् आत्मस्वरूपं योगिनो ऽपि न विदन्ति न जानन्ति । कीदृशाः । शमश्रुतयमोपेताः क्षान्तिज्ञानव्रतोपेताः । पुनः कीदृशाः । जिताक्षा जितेन्द्रियाः । पुनः कीदृशाः । शंसितवताः प्रशंसितमहाव्रताः । इति सूत्रार्थः ॥३१।। अथ यथा मुनिभिर्मोक्षः प्राप्तः तथाह।
1104 ) विलीनविषयं-मुनिभिरव्ययम् अविनाशपदं मोक्षपदं प्राप्तम्। किं कृत्वा। मनः स्वस्थं कृत्वा। कीदृशं मनः । विलीनविषयं विनष्टेन्द्रियव्यापारम् । पुनः कीदृशम् । शान्तं क्रोधाद्यभावोपेतम् । पुनः । निःसंगम् बाह्याभ्यन्तरसंगमुक्तम् । पुनः कीदृशम् । त्यक्तविक्रियं तजितविकारम् । इति सूत्रार्थः ॥३२॥ अथ चित्तस्य त्रैलोक्यव्याप्यत्वमाह ।
अचिन्त्य शक्तिवाला यह मनरूप दैत्य स्वतन्त्र रहकर सब इन्द्रियोंके प्रसन्न करनेमें समर्थ ऐसे तीनों लोकोंके भी ऐश्वर्यको भोगता है। अभिप्राय यह है कि जब तक मनको वशमें नहीं किया जाता है तबतक वह तीनों ही लोकोंकी सम्पत्तिके भोगने का विचार ( आर्तध्यान) करता रहता है ॥३०॥
शम, आगमज्ञान और संयमसे सहित, जितेन्द्रिय एवं प्रशस्त व्रतोंके धारक हो करके भी जिन योगियोंने अपने मनको नहीं जीता है वे आत्माके स्वरूपको नहीं जानते हैं ॥३१॥
इसके विपरीत जिन मुनियोंने उस मनको विषयोंसे विमुख, शान्त, निर्मम और क्रोधादि विकारोंसे रहित करके आत्मस्वरूपमें स्थित कर लिया है उन्होंने अविनश्वर पद (मोक्ष) को प्राप्त कर लिया है ॥३२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org