SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ -९२१-७] १९. त्रितत्त्वम् ३६७ श्रान्तमुनिजनप्रार्थितप्रवेशोत्सवेन स्वर्गापवर्गद्वारविघटनवज्रागलः सकलजगद्विजयवैजयन्तीकृतचतुरकामिनीभ्रविभ्रमः क्षोभ - णादिमुद्राविशेषशाली सकलजगद्वशीकरणसमर्थः इति चिन्त्यते तदायमात्मैव कामोक्तिविषयतामनुभवति ।। [इति काम तत्त्वम् ]॥७ प्रार्थितप्रवेशोत्सवेन प्रारब्धं यदुत्तमं तपः तेन तप्ताः श्रान्ताः ये मुनिजनाः, तैः प्रार्थितः प्रवेशोत्सवः येन स तेन । कीदृशः कामः । स्वर्गापवर्गद्वारसंघट्टनवज्रार्गलः स्वर्गमोक्षयोरिमिलनवज्रार्गलः । पुनः कीदृशः। सकलजगद्विजयवैजयन्तीकृतचतुरकामिनीभ्रूविभ्रमः सकलजगतो विजयेन वैजयन्तीकृतः पताकीकृतः चतुरकामिनीनां भ्रूविभ्रमा येन सः । पुनः कीदृशः। क्षोभणादिमुद्राविशेषशाली क्षोभणादि-आकारविशेषशोभायमानः। पुनः कीदृशः। सकलजगद्वशीकरणसमर्थ इति चिन्त्यते । तदा अयमात्मैव कामोक्तिविषयतामनुभवति ॥७॥ यत्तपो दीक्षालक्षणं तेन पूर्वं तप्ताः पश्चात् श्रान्ताः खेदखिन्नाः जाता ये मुनिजना यतिवर्गाः तैः प्राथितो याचितोऽभिलषितः प्रवेशोत्सवः समागमनमहोत्सवः तेन कारणभतेन हेतना कृत्वा स्व पवर्गद्वारविघटनवज्रार्गलः स्वर्गश्च त्रिषष्टिपटलभेदभिन्नः अपवर्गश्च परमनिर्वाणं तयोर व्यवहारनिश्चयरत्नत्रयलक्षणं तस्य विघटने विशेषेण संघट्टने निश्छिद्रतया झम्पने वज्रार्गल: वज्रमयम् अर्गलं काष्ठमयो लोहमयो दण्ड. । स्वर्ग मोक्षं वा गन्तुं न ददाति दीक्षाभङ्गेन प्रायो नरक एव भवतीति कारणात् अर्गला । अर्गलं च इत्येतस्य प्रधानत्वात् पुंस्त्वं निरूपितम् । पुनरपि कथंभूतः ध्यानेन कामभूत आत्मा। [ सकलजगद्विजयवैजयन्तीकृतचतुरकामिनीभ्रविभ्रमः ] सकलजगद्विजयेन समस्तत्रैलोक्यभङ्गेन वैजयन्तीकृतः ध्वजीकृतः चतुरकामिनीनां विदग्धसुन्दरीणां भ्रूविभ्रमः चिल्लीसमाटोपो येन आत्मना स तथोक्तः । भूयो ऽपि कथंभूतः आत्मा। क्षोभणादिमुद्राविशेषशाली क्षोभणं चित्तादिचालनम् आदियेषां ते मोहनवशीकरणोच्चाटनादीनां तेषां तेषां ये मुद्राविशेषाः आकारभेदाः तैः शालते शोभते इत्येवंशीलः क्षोभणादिमुद्राविशेषशाली। 'शाल शोभायां' वि[धि]निण। पुनरपि कथंभतः आत्मा। सकलजगदशीकरणसमर्थ । सकलस्य जगतः त्रैलोक्यस्य वशी मुनिजनोंके द्वारा याचित प्रवेशके उत्सवसे स्वर्ग और मोक्षके द्वारके खोलनेमें वज्रमय अर्गला ( काष्ठमय दण्ड ) के समान बाधक होता है, जिसने चतुर स्त्रियों के भ्रकुटियोंके विलासको अपने तीनों लोकोंके जीतनेकी विजयपताका बना ली है, जो चित्तको क्षोभित एवं मोहित आदि करनेकी मुद्राविशेषसे शोभायमान है, तथा समस्त लोकके वश करने में समर्थ है; ऐसे जो इस कामतत्त्वका चिन्तन किया जाता है उस कामकी उक्ति (नाम ) की विषयताका अनुभव यह आत्मा ही करता है, कामतत्त्व ॥७॥ १. N प्रवेशोत्सवस्वर्गा। २. L FJ संघटन, SX Y संविघटन, T संकटन। ३. M समर्थत इति । ४. P N om. इति कामतत्त्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy