________________
३५८
ज्ञानार्णवः
त्रिकोण तेजोमयपुरमध्यबद्धवसतिवस्ताधिरूढज्वलदलातहस्तानलमुद्रोद्दीपितसकललोकवह्निविरचितोरः प्रदेशः ॥ [ इति वह्नितत्वम् । ] ।।४
[ १९.९+१-४
अविरतपरिस्फुरत्स्फूत्कारमारुतान्दोलितसकलभुवनाभोगपरिभूतषट्चरणचक्रवालकालिमानिजतनुसमुच्छलद्रहुलकान्तिपटल
रक्षितः आशुशुक्षणिरग्निः तस्य वर्णः, तद्वद्विस्फुरित मुद्दीपितं विस्तीर्णं स्वस्तिकोपपन्नं स्वस्तिकसदृशं त्रिकोणं त्रिकोणाकारं यत्तेजोमयपुरमग्निमण्डलं तन्मध्ये बद्धा रचिता वसतिः स्थानं येन स तथा । पुनः कीदृशः । ज्वलदिलात लहस्तानलमुद्रोद्दीपितसकललोकवह्निविरचितोरः प्रदेशः, ज्वलदिलातले दीप्यमान पृथ्वीतलहस्तानलमुद्रया उद्दीपितो यः सकललोकवह्निः तेन विरचितोरः प्रदेशो यस्य तेषां पदानां समाहारः स तथा । इति वह्नितत्त्वम् । व्याख्या समाप्ता ॥४॥ अथाग्नितत्त्वानन्तरं
Jain Education International
वायुतत्त्वमाह ।
अविरत — अविरतापरिस्फुरत्" फूत्कारमारुतान्दोलितसकलभुवनाभोगः, अविरता निरन्तराः परिस्फुरन्तः फूत्कारमारुताः तैरान्दोलितः कम्पितः सकलभुवनाभोगो जगद्विस्तारो येन स तथा । पुनः कीदृशः । परिभूतषट्चरणचक्रवालकालिमानिजतनुसमुच्छलद्बहलकान्तिपटलपिहितनभस्तलवेष्टितं सकलं समग्रं दिग्वलयं हरिच्चक्रं याभ्यां द्विजदन्दशूकाभ्यां द्विजजातीयसर्पाभ्याम् अनन्तकुलिकनामभ्यां तौ रक्षणं यस्य तेजोमयपुरस्य तच्च तत् आशुशुक्षणिवर्णविस्फुरितम् अग्निबीजशोभितं रकाराक्षरशोभितं तच्च तत् विस्तीर्णस्वस्तिकोपपन्नं त्रिकोणेषु महास्वस्तिकत्रयसंयुक्तं त्रिकोणं त्र्यस्त्रं यत्तेजोमयपुरम् अग्निमण्डलं तस्य मध्ये बद्धा विरचिता वसतिः स्थितिर्येन स चासौ बस्तः छागराजः तमधिरूढः चटितः स चासौ प्रज्वलदलातहस्तः जाज्वल्यमानोल्मुककरः स चासौ अनलमुद्रोद्दीपितसकललोकः अनलमुद्रया अग्निमुद्रया उद्दीपितः उद्योतितः सकलो निरवशेषो लोको जगद्येन स तथोक्तः स चासौ एवंविधविशेषणत्रयविशिष्टो वह्निरग्निदेवता तेन विरचितो ध्यानेन परिकल्पितः उरः प्रदेशो हृदयप्रदेशो येनात्मना स तथोक्तः ||४||
अविरत — अविरतं निरन्तरं परिस्फुरत् समन्ततो धावन् योऽसौ फूत्कारमारुतः फूत्कारपवन तेन आन्दोलितः कम्पितः योऽसौ सकलः समग्रो भुवनाभोगो जगद्विस्तारस्तेन परिभूता उड्डापिता ये षट्चरणा भ्रमरास्तेषां चक्रवालं मण्डलं तस्येव कालिमा कृष्णत्वं येषां तानि च तानि निजतनुसमुच्छलद्बहलकान्तिपटलानि निजतनुभ्यां समुच्छलन्ती उत्पद्यमाना यासौ बहला
से प्रकाशमान तथा विस्तीर्ण स्वस्तिक ( सांथिया ) चिह्नसे संयुक्त, ऐसे तीन कोन वाले तेजसे निर्मित नगरके मध्य भागमें अवस्थित, बकरेपर चढ़ा हुआ, जलते हुए काष्ठ (या अंगार) को हाथ में लिये हुए; अग्निकी मुद्रासे समस्त लोकको व्याप्त करनेवाले ऐसे अग्नि लोकपालसे जिस का वक्षस्थल रचा गया है, वह्नितत्त्व ||४||
निरन्तर चलती हुई फुंकार वायुसे कम्पित हुए समस्त लोकप्रदेशके द्वारा परिभवको प्राप्त हुए भ्रमरसमूहकी कालिमाके समान अपने शरीर से निकलनेवाली विस्तृत कान्तिके
१. K ज्वलदिलातलहस्ता ।
For Private & Personal Use Only
www.jainelibrary.org