SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ -५७] १८७ ८. अहिंसाव्रतम् 529 ) यत्किंचित्संसारे शरीरिणां दुःखशोकभयबीजम् । दौर्भाग्यादि समस्तं तद्धिसासंभवं ज्ञेयम् ॥५६ . 530 ) ज्योतिश्चक्रस्य चन्द्रो हरिरमृतभुजां चण्डरोचिङ्ग्रहाणां कल्पागः पादपानां सलिलनिधिरपां स्वर्णशैलो गिरीणाम् । देवः श्रीवीतरागस्त्रिदशमुनिगणस्यात्र नाथो यथायं तद्वच्छीलवतानां शमयमतपसां विद्धयहिंसा प्रधानम् ॥५७ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्यश्रीशुभचन्द्रविरचिते अहिंसावतप्रकरणम् ।।८।। 529 ) यत्किचित्संसार-संसारे जगति शरीरिणां दुःखशोकभयबोजं कारणं यत् किंचित् वर्तते, अन्यत् समस्तं दौर्भाग्यादि वर्तते, तत्सर्व हिंसासंभवं वधाज्जातं ज्ञेयं ज्ञातव्यम्, इति सूत्रार्थः ॥५६॥ अथ अहिंसाप्रधानं दृष्टान्तमाह । स्रग्धरा। 530) ज्योतिश्चक्रस्य-यथा ज्योतिश्चक्रस्य मध्ये चन्द्रो महान, यथा अमतभजां देवानां मध्ये हरिरिन्द्रो महान्, ग्रहाणां मध्ये चन्द्ररोचिः प्रधानम् । पादपानां यथा कल्पागः कल्पवृक्षः प्रधानः । अपांमध्ये सलिलनिधिः प्रशस्यः । गिरीणां मध्ये स्वर्णशैलो मेरुः प्रधानः । देवमुनिगणस्य मध्ये अत्र जगति श्रीवीतरागो देवः । 'यथा नाथः' इति शब्दः प्रत्येकं वाच्यः प्रधानः। तद्वत्तथा शीलवतानां शमयमतपसां मध्ये अहिंसा प्रधानं विद्धि जानीहि, इति सूत्रार्थः ॥५७।। इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रयोगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा-तत्पुत्रसाहटोडरतत्कुलकमलदिवाकरसाहरिषिदास-स्वश्रवणार्थ पण्डितजिनदासोद्यमेन अहिंसाप्रकरणं समाप्तम् ॥८॥ त्यक्तान्यधर्मसंसर्गः स्वर्गप्रतिपालकः । तोडरस्येह सत्पुत्रो जीयात् श्रीऋषिदासो ऽस्तु ॥१॥ आशीर्वादः । अथ व्रताधिकारे अहिंसानन्तरं क्रमेण सत्यस्वरूपमाह । संसारमें प्राणियोंके दुख, शोक और भयका कारणभूत जो दौर्भाग्य (पाप कर्म) आदि है वह सब हिंसासे ही उत्पन्न होता है, ऐसा निश्चय करना चाहिए ॥५६॥ जिस प्रकार यहाँ ज्योतिषी देवोंका चन्द्र, देवोंका इन्द्र, ग्रहोंका सूर्य, वृक्षोंका कल्पवृक्ष, जलाशयोंका समुद्र, पर्वतोंका सुमेरु तथा देवों व मुनिगणोंका श्री वीतराग (अरिहन्त) देव स्वामी है, उसी प्रकार शील, व्रत, शम, यम और तपका प्रधान-उनकी अधिष्ठात्री-अहिंसा है ॥५॥ इस प्रकार आचार्य श्री शुभचन्द्र विरचित ज्ञानार्णव योगप्रदीपाधिकार में अहिंसा प्रकरण समाप्त हुआ ॥८॥ २. All others except PN T हिंसा १. M NS T F VC कल्पांगः, BJX R कल्पांगं। प्रधानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy