SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १५४ ज्ञानार्णवः [६.४५ 434 ) प्रकृत्यादिविकल्पेन ज्ञेयो बन्धश्चतुर्विधः । ज्ञानावृत्यादिभेदेन सो ऽष्टधा प्रथमः स्मृतः ॥४५ 435 ) मिथ्यात्वाविरतियोगकषायाश्च यथाक्रमम् । प्रमादैः सह पञ्चैते विज्ञेया बन्धहेतवः ॥४६ 436 ) उत्कर्षेणापकर्षेण स्थितिर्या कर्मणां मता। स्थितिबन्धः से विज्ञेय इतरस्तत्फलोदयः ॥४७ 434 ) प्रकृत्यादि-कर्मात्मप्रदेशानामन्योन्यं क्षीरनीरवत् प्रवेशनं बन्धः। स बन्धश्चतुविधः। प्रकृतिस्थित्यनुभागप्रदेशभेदात्। स बन्धः प्रथमतोऽष्टधा मतो व्याख्यातः। केन ज्ञानावरणादिभेदेन । तत्र ज्ञानावरणस्य का प्रकृतिः, का स्थितिः, को ऽनुभागः, के प्रदेशाः। देवतामुखवस्त्रमिव ज्ञानप्रच्छादनता । जीवप्रदेशे ष्वपि यावत्कालं ज्ञानावरणादिकर्मबन्धानां स्थितिः तावत् स्थितिबन्धः त्रिंशत्सागरोपमादिका। को ऽनुभागः । ज्ञानावरणादिकर्मपुद्गलानामात्मप्रदेशेषु तारतम्येन रसविशेषः । जीवेन स्वशक्त्या कर्मयोग्यपरमाणुसंयोजनं प्रदेशबन्धः । एवं शेषदर्शनावरणादिषु कर्मसु प्रकृत्यादिचतुर्विधो बन्धो ज्ञातव्यः । इति सूत्रार्थः ॥४५।। अथ कर्मबन्धहेतुमाह। ___435 ) मिथ्यात्व-एते पञ्च बन्धहेतवो विज्ञेयाः यथाक्रमात् । एते के। मिथ्यात्वाविरतियोगकषायप्रमादाः । तत्र मिथ्यात्वं जिनोक्तपदार्थानां विपरीतश्रद्दधानम् । तत्पञ्चधा । सुगमम् । तत्प्रत्ययः कर्मबन्धो भवति । अविरतिः द्वादशधा । हिंसानृतस्तेयाब्रह्मपरिग्रहाकाङ्क्षारूपेण पञ्चप्रकारा । अथवा मनःसहितपञ्चेन्द्रियप्रभतिषटकायविराधनाभेदेन द्वादशप्रकारा। तत्प्रत्ययः कर्मबन्धो भवति । मनोवचनकायव्यापारभेदेन योगस्त्रिधा। तस्मादपि कर्मबन्धो भवति । विस्तरेण पञ्चदशप्रकारैर्वा पूर्वोक्ता एव कषायाः क्रोधमानमायालोभभेदेन चत्वारः। कषायनोकषायभेदेन पञ्चविंशतिप्रकारा वा। तैरपि कर्मबन्धो भवति । “विकहा तहा कसाया इंदियणिद्दा तहेव पणयो य । चदु चदु पणमेगेगं होंति पमादा हु पण्णरस" इत्यादि गाथोक्तपञ्चदशप्रमादाः । तैरपि कर्माणि बध्यन्ते । एते सर्व ऽपि मिथ्यात्वादयः कर्मबन्धहेतवः। इति सूत्रार्थः ॥४६॥ अथ स्थितिबन्धमाह । ___436 ) उत्कर्षेणाप-कर्मणां ज्ञानावरणादीनां या स्थितिर्मता अभिमता । केन। उत्कर्षण त्रिंशत्यादिसागरप्रमाणा। अपकर्षेण अन्तर्मुहूर्तादिकादिभेदेन द्विविधः स्थितिबन्धः स विज्ञेयः । बन्ध प्रकृति आदि ( स्थिति, अनुभाग व प्रदेश ) के भेदसे चार प्रकारका है। इनमें प्रथम स्थितिबन्ध ज्ञानावरण आदिके भेदसे आठ प्रकारका माना गया है ।।४५।। प्रमादोंके साथ यथाक्रमसे मिथ्यात्व, अविरति, कषाय और योग इन पाँचको उस बन्धके कारण जानना चाहिए ॥४६।। कर्मोंका जो अधिकसे अधिक तथा कमसे कम काल तक आत्मप्रदेशोंके साथ अवस्थान १. B] प्रथमं स्मृतः। २. M T विरती योग, LB विरतिर्योगाः, N F V C विरतियोग', SJX Y R विरती योगः। ३. All others except PM N यथाक्रमात । ४.P writes this verse on the margin । ५. स्थितिबन्धश्च विज्ञेयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy