________________
१४६ ज्ञानार्णवः
[६.२५414 ) धर्माधर्मनभःकालाः पुद्गलैः सह योगिभिः ।
___ द्रव्याणि षट् प्रणीतानि जीवपूर्वाण्यनुक्रमात् ॥२५ हिंसानृतस्तेयाब्रह्मपरिग्रहनिवृत्तिलक्षणं देशविरतिगुणस्थानम् । तत्र पञ्चेन्द्रियसंज्ञितियश्चमनुष्याः एवं पूर्वप्राप्तसम्यक्त्वा वर्तन्ते। अथ धूलिरेखासदृशक्रोधादितृतीयकषायोदयाभावे सति हिंसानृतस्तेयाब्रह्मपरिग्रहरूपेषु पञ्च महाव्रतेषु वर्तते । यदा दुःस्वप्नादिव्यक्ताव्यक्तप्रमादसहितोऽपि षष्ठगुणस्थानवर्ती प्रमत्तसंयतो भवति । स पञ्चेन्द्रियमनुष्यसाधुरेव भवति इति प्रमत्तगुणस्थानम् । स एव जलरेखादिसमानसंज्वलनकषाये मन्दोदये सति शुद्धात्मतत्त्वमलजनकव्यक्ताव्यक्तप्रमादरहितः सन् सप्तमगुणस्थानवर्ती अप्रमत्तसंयतः। तत्रापि सम्यक्त्वादिसहितः साधुरेव इत्यप्रमत्तगुणस्थानम् । स एव गतसंज्वलनकषाये मन्दोदये सत्यपूर्वानन्दामतसुखस्पर्शी उपशमक्षपकश्रेणिप्रारम्भको ऽपूर्वकरणगुणस्थानमष्टमम् । अत्रौपशमिकः क्षपको वा निःसंकल्पपरमात्मतत्त्वैकध्यानपरिणामेन द्वितीयकषायादि एकविंशतिभेदभिन्नचारित्रमोहनीयप्रकृतीनामुपशमक्षपकयोः समर्थो नवमगुणस्थानवर्ती जीवो भवति । तत्र द्वावप्युपशमक्षपको भवतः। सूक्ष्मपरमात्मतत्त्वध्यानबलात् सूक्ष्मोत्कृष्टगतलोभकषायस्योपशमकक्षपको स्तः इति दशमगुणस्थानम् । परमोपशमस्वभावस्वात्मसंबोधबलेन सर्वो ऽपि शान्तमोह एकादशगुणस्थानवर्ती शमकः। उपशमश्रेणिरहितेन क्षपकश्रेणिमार्गेण निःकषायः शुद्धात्मभावनाबलेन क्षीणकषायद्वादशगुणस्थानवर्ती भवति स चौपशमणि विहाय क्षपकः मोहक्षयानन्तरान्तर्मुहूर्तकालं स्वशुद्धात्मबोधरूपैकत्ववितर्कावीचारद्वितीयशुक्लध्यानभेदे स्थित्वान्त्यसमये ज्ञानावरणदर्शनावरणान्तरायत्रययगपदेकसमयेन छित्त्वा मेघमालाविनिर्गतदिनकर इव सकलविमलकेवलज्ञानकिरणर्लोकालोकप्रकाशकाः त्रयोदशगुणस्थानवर्तिनो जिनभास्करा भवन्ति । मनोवचनकायवर्गणावलम्बनकर्मादानहेतुप्रदेशस्पन्दलक्षणे योगरहिताश्चतुर्दशगुणस्थानवर्तिनोऽयोगिनो भवन्ति । इति गुणस्थानेषु चतुर्दशसु संसारिजीवाः समाख्याता इति सूत्रार्थः॥२४॥ अथ जीवप्रतिपक्षत्वात् प्राप्तनिर्देशत्वात्। अथ जीवपदार्थमाह।
___414 ) धर्माधर्म-सकलविमलकेवलज्ञानदर्शनद्वयं शुद्धोपयोगः। मतिज्ञानादिरूपो विकलो ऽशुद्धोपयोगः चेतनालक्षणो वा। यत्र द्विधापि नास्ति स अजोवः। धर्माधर्मनभःकालपुद्गलभेदात् पञ्चधा। गतिस्थित्यवगाहवर्तनलक्षणा धर्माधर्माकाशकाला गलनपूरणधर्माणः पुद्गलाः। अथ गाथार्थ उच्यते । योगिभिः षड् द्रव्याणि प्रणीतानि अनुक्रमात् कथितानि । कीदृशानि । जीवपूर्वाणि । जीवस्वरूपं पूर्वमुक्तम् । शेषं सुगमम् ॥२५॥ अथ जीवादीनां स्वरूपमाह ।' गुणस्थान कहते हैं । वे गुणस्थान चौदह हैं-मिथ्यात्व, सासादन, मिश्र, अविरत-सम्यग्दृष्टि, देशसंयत, प्रमत्तसंयत, अप्रमत्तसंयत, अपूर्वकरण, अनिवृत्तिकरण, सूक्ष्मसाम्पराय, उपशान्तमोह, क्षीणमोह, सयोगकेवली और अयोगकेवली । इनका विशेष विवरण गोम्मटसार जीवकाण्ड (गा-८-६५) में देखना चाहिए ॥२४॥ जीवतत्त्वका वर्णन समाप्त हुआ। -
उक्त जीवोंके साथ क्रमसे धर्म, अधर्म, आकाश, काल और पुद्गल; इन छहको योगियोंने द्रव्य कहा है। विशेषार्थ-जो चेतना अथवा ज्ञान-दर्शनसे रहित है वह अजीव कहलाता है । वह पुद्गल, धर्म, अधर्म, आकाश और कालके भेदसे पांच प्रकारका है। इनके साथ जीवों को ग्रहण कर वे छह द्रव्य कहे जाते हैं ।।२५।।
१. P काल:, M N धर्मोऽधर्मो नभःकालः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org