________________
. २४ ]
६. दर्शनविशुद्धिः
१४५
भेदात् त्रिधा वेदमार्गणाः । शुद्धात्मतत्त्वाभावात् क्रोधमानमायालोभभेदेन चतुर्विधाः कषायमार्गणाः विस्तरेण कषायनोकषायजनितभेदात् पञ्चविंशतिविधाः वा । मतिश्रुतावधिमनःपर्ययकेवलज्ञानपञ्चकं कुमत्याद्यज्ञानत्रयं मेलादष्टप्रकारा ज्ञानमार्गणाः । सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसांपराययथाख्यातचारित्रभेदेन पञ्च प्रकाराः । संयमासंयमस्तथासंयमः प्रतिपक्षद्वयेन सह सप्तप्रकाराः संयममार्गणाः। चक्षुरचक्षुरवधिकेवलदर्शनभेदेन चतुर्विधा दर्शनमार्गणाः । अनन्तपरमात्मद्रव्यप्रतिकूलाः कृष्णनीलकापोततेजःपीतशुक्लभेदात् षट्प्रकारा लेश्यामार्गणाः। भव्याभव्यभेदेन द्विधा भव्यमार्गणाः। औपशमिक-क्षायोपशमिक-क्षायिक-सम्यक्त्वभेदाः त्रिधा सम्यक्त्वमार्गणाः । मिथ्यादृष्टिसासादन मिश्रसंज्ञविपक्षत्रयपतनात् षटप्रकाराः सम्यक्त्वमार्गणाः । संश्यसंज्ञिभेदात् द्विविधाः संज्ञिमार्गणाः । आहारकानाहारकभेदाद् द्विविधाः आहारकमार्गणाः । इति चतुर्दशमार्गणा ज्ञातव्याः। तत्र सर्वास गतिष सर्वे संसारिजीवाः सन्ति इति गतिमार्गणा। अन्तरालगतिस्थजीवान् विहाय सर्वेन्द्रियेषु सर्वे जीवाः सर्वकायेषु सर्वे संसारिजीवा इति कायमार्गणा। कामणोपलक्षितान्तरालगतिस्थान् त्यक्त्वा सर्वयोगेषु सर्वे जीवा इति योगमार्गणा । व्यवहारापेक्षया अन्तरालस्थान् वेदक्षपकान् तान् जीवान् परित्यज्य त्रिषु वेदेषु सर्वे जीवाः प्राप्यन्ते इति वेदमागंणा। एवं शेषास्वनुक्तासु यावन्तो जीवभेदा वर्तन्ते तत्र ग्रन्थान्तरादवसेया इति मार्गणासु संसारिजीवाः प्ररूपिताः। सांप्रतं गुणस्थानेषु तानाह। 'मिच्छो सासण' ॥ ( गोम्मटसारजीवकाण्ड ९) निजपरमात्मतत्त्वस्य सर्वज्ञप्रणीतागमोक्तरत्नत्रयरूपमोक्षमार्गस्य श्रद्धानं यस्य नास्ति स मिथ्यादृष्टिः । देवमानुषनारकपञ्चेन्द्रियतिर्यक्षु केषांचित् सम्यक्त्वं तान् विहाय सर्वे मिथ्यादृष्टयः । अथ पाषाणरेखादिसमानानन्तानुबन्धिचतुष्कक्रोधमानमायालोभान्यतरोदयेन प्रथमोपशमिकसम्यक्त्वोत्पतितो मिथ्यात्वं नाद्यापि गच्छतीत्यन्तरालवर्ती सासादनः। उपशमश्रेणेः पतन् जीवः सासादनः स्वशुद्धात्मादितत्त्वं वीतरागसर्वज्ञप्रणीतं परप्रणीतं च मन्यते यः दर्शनमोहनीयभेदमिश्रकर्मोदयेन दधिगुडमिश्रभाववत् मिश्रगुणस्थानम् । तत्रायं सम्यक्त्वप्राप्तिकाले केषांचित् भवति इति मिश्रगुणस्थानम् । ननु सर्वे देवा वन्दनीया न च निन्दनीया इत्यादिवैनयिकमिथ्यादृष्टेः सम्यग्मिथ्यादृष्टः को विशेषः। उच्यते। तत्र वैनयिकमिथ्यादृष्टेः सर्वदेवभक्तिविषये कस्यापि वन्दनेन मम पुण्यं भविष्यति इति अभयेन भक्ति करोति, मम पुण्यं भविष्यत्येवेति निश्चयो नास्ति। मिश्रस्य पुनरुभयत्रापि निश्चयोऽस्तीति विशेषः । अप्रत्याख्याने द्वितीयकषायोदयेन आत्मनिन्दादिसहितः इन्द्रियसुखमनुभवति इत्यविरतसम्यग्दृष्टिगुणस्थानम् । यद्यप्यन्यत्रापि स्यात्तथा स देवमनुष्ययोर्विशेषः इति अविरतगुणस्थानम् । अविरतसम्यग्दृष्टो सत्यां तृतीयकषायोदयाभावेन सूक्ष्म एकेन्द्रिय, द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय, असंही पंचेन्द्रिय और संज्ञी पंचेन्द्रिय; इस प्रकार ये सात हैं जो पर्याप्त और अपर्याप्त भेदोंमें विभक्त होनेसे चौदह हो जाते हैं। इनके उत्तरभेदों (पृथिवी व जल आदि) को ग्रहण करनेपर उक्त जीवसमासके सत्तावन (५१) भेद भी हो जाते हैं । मार्गणाका अर्थ अन्वेषण होता है। तदनुसार जिन अवस्था विशेषोंके द्वारा अथवा जिन अवस्थाओंमें जीवोंका अन्वेषण (खोज) किया जाता है उनका नाम मार्गणा है। वे मार्गणाएँ निम्न प्रकारसे चौदह हैं-गति, इन्द्रिय, काय, योग, वेद, कषाय, ज्ञान, संयम, दर्शन, लेश्या, भव्यत्व, सम्यक्त्व, संज्ञी और आहार। इनका विशद वर्णन गोम्मटसार-जीवकाण्डमें किया गया है, वहाँसे देखना चाहिए। मोहनीय कर्मके उदय, उपशम, क्षयोपशम और क्षय आदिके होनेपर जीवोंके जो परिणाम प्रादुर्भूत होते हैं उन्हें
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org