SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १३२ ज्ञानार्णवः [५.२७380 ) आत्मन्यात्मप्रचारः कृतसकलबहिःसंगसंन्यासवीर्या दन्तोतिःप्रकाशाद्विलयगतमहामोहनिद्रातिरेकः । निर्णीते स्वस्वरूपे स्फुरति जगदिदं यस्य शून्यं जडं वा तस्य श्रीबोधवाधैर्दिशतु तव शिवं पादपङ्केरुहश्रीः ॥२७ 381 ) आत्मायत्तं विषयविरतं तत्त्वचिन्तावलीनं निर्व्यापारं स्वहितनिरतं निभृतानन्दपूर्णम् । ज्ञानारूढं शमयमतपोध्यानलब्धावकाशं कृत्वात्मानं कलय सुमते दिव्यबोधाधिपत्यम् ॥२८ 380 ) आत्मन्यात्मप्रचारः-तस्य श्रीबोधवार्धेः ज्ञानसमुद्रस्य पादपकेहश्रीः पदकमललक्ष्मीः तव शिवं कल्याणं दिशतु । आत्मनि आत्मप्रचारः कृतः । कस्मात् । सकलबहिःसंगसंन्यासात् बाह्याभ्यन्तरसंगत्यागात् । पुनः कीदृशः । विलयगतमहामोहनिद्रातिरेकः । अतिरेकः आधिक्यम् । कस्मात् । अन्तर्योतिःप्रकाशात् । यस्य स्वस्वरूपे इदं जगत् शून्यं जडं वा स्फुरति । कीदशे स्वस्वरूपे । निर्णीते निश्चयीकृते इति सूत्रार्थः ॥२७॥ अथात्मतत्त्वमुपसंहरन्नाह । मन्दाक्रान्ता। 381 ) आत्मायत्तं विषयविरतं-सुमते, आत्मानं कलय जानीहि। किं कृत्वा । दिव्यबोधाधिपत्यं कृत्वा । कीदृशम् । आत्मायत्तम् आत्माधीनम् । पुनः कीदृशम् । विषयविरतम् इन्द्रियव्यापाररहितम् । पुनः कीदृशमात्मानम् । तत्त्वचिन्तानि* लीनं परमात्मध्याने नितरां लोनम् । पुनः निर्व्यापार व्यापाररहितम् । पुनः कीदृशम् । स्वहितनिरतम् । सुगमम् । पुनः कीदशम् । निवृत्तानन्दपूर्णम्* मुक्तानन्दपूर्णम् । पुनः कीदृशमात्मानम् । ज्ञानारूढम् । सुगमम् । शमयमत ___ समस्त बाह्य परिग्रहके परित्यागके बलसे जिसका आत्मसंचार अपनी आत्माके भीतर ही हो रहा है जो बाह्य वस्तुओंसे निवृत्त होकर अपनी आत्मामें ही लीन हो रहा है, जिसके आत्मज्ञानरूप अभ्यन्तर ज्योतिके प्रकाशसे मोहरूप निद्राकी अधिकता नष्ट हो चुकी है तथा जिसे आत्मस्वरूपका निश्चय हो जानेपर यह जगत् शून्य अथवा जड़के समान प्रतीत हो रहा है उस ज्ञान के समुद्रस्वरूप योगीके चरण-कमलकी लक्ष्मी तुम्हारे लिए मुक्तिको प्रदान करे ॥२७॥ हे सुबुद्धे ! तू अपने आपको अपने ही स्वाधीन, विषयोंसे विरक्त, तत्त्वके चिन्तनमें तल्लीन, शरीर व इन्द्रियों आदिके व्यापारसे रहित, अपने हितमें उद्यत, दुःखके संसर्गसे रहित, निराकुल सुखसे परिपूर्ण, ज्ञानमें आरूढ (ज्ञानानन्दस्वरूप), तथा शम, यम, तप और ध्यानमें अवस्थित करके दिव्य बोधके-केवलज्ञानके-स्वामित्वका अनुभव कर ॥२८॥ १. NS TV cx Y R प्रचारे, B आत्मज्ञानप्रचारः । २. M N JB 28 and 28*1 interchanved | ३. V BCIR विषयविरसं। ४. M चिन्ताविलीनं, B चिन्तातिलीनं. 1XY चिन्तानिलीनं । ५. All others except P निर्वृतानन्द । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy