________________
- १२४ ]
२. द्वादश भावनाः
172 ) यमप्रशमनिर्वेदतत्त्वचिन्तावलम्बितम् । मैत्र्यादिभावनारूढं मनः सूते शुभास्रवम् ।।१२१ 173 ) कषायदहनोद्दीप्तं विषयैर्व्याकुलीकृतम् ।
संचिनोति मनः कर्म जन्मसंबन्धसूचकम् ॥१२२ 174 ) विश्वव्यापारनिर्मुक्तं श्रुतज्ञानावलम्बितम् ।
शुभास्रवाय विज्ञेयं वचः सत्यंप्रतिष्ठितम् ॥ १२३ 175 ) अपवादास्पदीभूतमसन्मार्गोपदेशकम् । पापात्रवाय विज्ञेयमसत्यं परुषं वचः ॥ १२४
172 ) यमप्रशमनिर्वेद - मनः शुभास्रवं सूते जनयति । कथंभूतं मनः । यमप्रशमनिर्वेदतत्त्वचिन्तावलम्बितम् । व्रतक्षान्तिवैराग्यतत्त्वचिन्तास्थापितम् । पुनः कीदृशं मनः । मैत्र्यादिभावनारूढमिति सुगमम् । इति श्लोकार्थः ॥ १२१ ॥ अथ अशुभास्रवमाह ।
173 ) कषायदहनोद्दीप्तं - मनः कर्म संचिनोति बध्नाति । कीदृशं कर्म । जन्मसंबन्धसूचकमिति सुगमम् । कीदृशं मनः । कषायदहनोद्दीप्तं कषायाग्निज्वलितम् । पुनः कीदृशं मनः । विषयैः • इन्द्रिय व्यापारैः व्याकुलीकृतमिति श्लोकार्थः ॥ १२२॥ पुनर्वाग्विषयसुस्रवमाह ।
174) विश्वव्यापारनिर्मुक्तं - सत्यप्रतिष्ठितं वचः शुभास्रवाय विज्ञेयम् । कथंभूतं वचः । विश्वव्यापारनिर्मुक्तमिति सुगमम् । पुनः कीदृशं वचः । श्रुतज्ञानावलम्बितं श्रुतज्ञानस्थापितमिति श्लोकार्थः ।।१२३|| अथ वाग्विषयपापास्त्रवमाह ।
६३
175 ) अपवादास्पदीभूत-असत्यं वचः पापास्रवाय विज्ञेयम् । कथंभूतं वचः । परुषं कठोरम् । असन्मार्गोपदेशकमिति सुगमम् । पुनः कीदृशम् । अपवादास्पदीभूतं हीनधर्मंप्ररूपकमिति भावः ॥ १२४॥ अथ कायविषयक शुभास्रवमाह ।
संयम; कषायोंका उपशमन; संसार, शरीर एवं भोगोंसे विरक्ति; और तत्त्वका चिन्तन; इन सबके आश्रित होकर मैत्री व प्रमोद आदि भावनाओं में संलग्न हुआ मन शुभ आस्रवको उत्पन्न करता है-पुण्य कर्मके आगमनका कारण होता है ॥ १२१ ॥
इसके विपरीत कषायरूप अग्निसे सन्तप्त होकर विषयोंके द्वारा व्याकुल किया गया मन संसारके सम्बन्धसूचक — संसारपरिभ्रमण के कारणभूत – पापकर्मको संचित किया करता है ||१२२||
Jain Education International
जो वचन सत्यका आश्रय लेकर समस्त व्यापारसे रहित होता हुआ श्रुतज्ञानका आलम्बन ले लेता है- आगमके पठन-पाठन में निरत होता है – उसे पुण्यकर्मके आगमका कारण समझना चाहिए || १२३||
निन्दा स्थानभूत (निन्द्य ), कुमार्गका उपदेश करनेवाले, असत्य और कठोर ( सुनने में कटु ) वचनको पापकर्मके आगमन का कारण समझना चाहिए || १२४ ||
१. MS VCR सत्यं प्रतिष्ठितम् ।
For Private & Personal Use Only
www.jainelibrary.org