________________
१८
ज्ञानार्णवः
36 ) अयमात्मा महामोहकलङ्की येन शुध्यति । तदेव स्वहितं धाम तच्च ज्योतिः परं मतम् ||३६ 37 ) विलोक्य भुवनं भीमयमभोगीन्द्रशङ्कितम् । अविद्यात्रजमुच्छिद्य धन्या ध्याने लयं गताः ||३७
38 ) जन्मजानन्तदुर्वारमहाव्यसनपीडितम् । जन्तुजातमिदं वीक्ष्य योगिनः प्रशमं गताः ॥ ३८
36 ) अयमात्मा – अयं महामोहकलङ्की आत्मा येन केनचित् शुध्यति । तदेवात्मनः स्वहितम् । तदेव धाम तेजः । च पुनः, तदेव ज्योतिः । तदेव परं प्रकृष्टं मतमभिमतं भवतीति तात्पर्यार्थः || ३६ || अथ ध्यानमाहात्म्यमाह ।
[ १.३६ -
37 ) विलोक्य भुवनं - ते धन्याः, ये ध्याने लयं गताः, ध्यानमया जाताः । किं कृत्वा । अविद्या मिथ्याज्ञानं, तस्य व्रजं समूहं उत्सृज्य त्यक्त्वा । पुनः किं कृत्वा । भुवनं जगत्, भीमयमभोगीन्द्रशङ्कितं रौद्रमृत्युनागेन्द्रशङ्कितं विलोक्येति तात्पर्यार्थः ॥ ३७ ॥ अथ दुःखार्णवस्वरूपं ज्ञात्वा बुधैमित्याह ।
38 ) जन्मजानन्त – इदं जन्तुजातं प्राणिसमूहं वीक्ष्य विलोक्य प्रशममुपशमं गताः प्राप्ताः । कथंभूतं जन्तुजातम् । जन्मजानन्तदुर्वारमहाव्यसनपीडितम् । जन्मजानि अनन्तानि दुर्वाराणि महाव्यसनानि तैः पीडितमित्यर्थः ||३८|| अथ जगति योगिप्रभावमाह ।
दुर्जनमें दोषग्रहणकी भावना स्वभावसे ही हुआ करती है । जैसे आचार्य वीरनन्दीने भी कहा है- 'गुणानगृह्णन् सुजनो न निर्वृतिं प्रयाति दोषानवदन्न दुर्जनः । चिरन्तनाभ्यासनिबन्धनेरिता गुणेषु दोषेषु च जायते मतिः ।।' चन्द्रप्रभ० १-७ ।। ३५।।
जिस तेजके द्वारा महान मोहसे मलिन यह आत्मा शुद्धिको प्राप्त होता है वही तेज वस्तुतः अपना हित करनेवाला है और उसे ही परं ज्योति ( अनन्त ज्ञान स्वरूप उत्कृष्ट (प्रकाश) माना जाता है ||३६||
जो महापुरुष विश्वको भयानक यम ( मृत्यु ) रूप सर्पसे भयभीत देखकर अविद्यासमूहका - मिथ्यादर्शन, मिथ्याज्ञान और मिथ्याचारित्रका - परित्याग करते हुए ध्यान में लीन हुए हैं वे धन्य हैं- अतिशय प्रशंसाके पात्र हैं ||३७||
Jain Education International
योगी जन इस प्राणिसमूहको जन्मसमय से ही उत्पन्न हुए तथा निवारणके लिए अशक्य ऐसे महा व्यसनसे - अतिशय विपत्ति या पापसे - पीड़ित देखकर शान्तिको प्राप्त हुए हैंराग-द्वेषको छोड़कर आत्मस्वरूपमें मग्न हुए हैं ||३८||
१. F J तत्त्वज्योति: । २. All others except P व्रजमुत्सृज्य । ३. STF VB CX Rजन्मजातङ्क । ४. Others except PMN L interchange 38-39 ।
For Private & Personal Use Only
www.jainelibrary.org