________________
रायचन्द्रजैनशास्त्रमालायाम्
[ प्रथमोऽध्यायः
__ भाष्यम्-अत्राह गृह्णीमस्तावन्मतिज्ञानम् । अथ श्रुतज्ञानं किमिति । अत्रोच्यते ।
अर्थ-यहाँपर शिष्य प्रश्न करता है, कि आपने मतिज्ञानके स्वरूपका और उसके भेदादिकोंका जो वर्णन किया सो सब हमने समझा । अब निर्देश-क्रमके अनुसार श्रुतज्ञानक वर्णन प्राप्त है, अतएव कहिये कि उसका स्वरूप क्या है ? इसका उत्तर देनेके लिये सूत्र कहते हैं
सूत्र-श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् ॥ २० ॥ . भाष्यम्-श्रुतज्ञानं मतिज्ञानपूर्वकं भवति । श्रुतमातवचनमागम उपदेश ऐतिहमाम्नाय प्रवचनं जिनवचनमित्यनान्तरम् । तद्विविधमङ्गबाह्यमङ्गप्रविष्टं च । तत्पुनरनेकविध द्वादशविधं च यथासंख्यम् । अङ्गबाह्यमनेकविधम्, तद्यथा-सामायिक चतुर्विशतिस्तवो वन्दनं प्रतिक्रमणं कायव्युत्सर्गः प्रत्याख्यानं दशवैकालिकं उत्तराध्यायाः दशाः कल्पव्यवहारौ निशीथमृषिभाषितान्येवमादि । अङ्गप्रविष्टं द्वादशविधं, तद्यथा-आचारः सूत्र. कृतं स्थानं समवायः व्याख्याप्रज्ञप्तिः ज्ञातृधर्मकथा उपासकाध्ययनदशाः अन्तकृद्दशाः अनुत्तरौपपादिकदशाः प्रश्नव्याकरणं विपाकसूत्रं दृष्टिपात इति । अत्राह-मति ज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति । अत्रोच्यते-उत्पन्नाविनष्टार्थग्राहकं सांप्रतकालविषयं मतिज्ञानम् । श्रुतज्ञानं तु त्रिकालविषयम् । उत्पन्नविनष्टानुत्पन्नार्थग्राहकम् । अत्राह-गृह्णीमो मतिश्रुतयोर्नानात्वम् । अथ श्रुतज्ञानस्य द्विविधमनेकद्वादशविधमिति किं कृतः प्रतिविशेष इति । अत्रोच्यते-वक्तृविशेषाद्वैविध्यम् । यद्भगवद्भिः सर्वज्ञैः सर्वदर्शिभिः परमर्षिभिरर्हद्भिस्तत्स्वाभाव्यात् परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थकरनामकर्मणोऽनुभादुक्तं भगवच्छिष्यैरतिशयवद्भित्तमातिशयवाग्बुद्धिसम्पन्नैर्गणधरैदृब्धं तदङ्गप्रविष्टं । गणधरानन्तर्यादिस्त्वत्यन्तविशुद्धागमैः परमप्रकृष्टवाझतिशक्तिभिराचार्यैः कालसंहननायुर्दोषादल्पशक्तीनां शिष्याणामनुग्रहाय यत् प्रोक्तम् तदङ्गवाह्यमिति । सर्वज्ञप्रणीतत्त्वादानन्त्याच्च शेयस्य श्रुतज्ञानं मतिज्ञानान्महाविषयम् । तस्य च महाविषयत्वात्तांस्तानर्थानाधिकृत्य प्रकरणसमाप्त्यपेक्षमङ्गोपाङ्गनानात्वम् । किंचान्यत्-सुखग्रहणधारणविज्ञानापोहप्रयोगार्थं च । अन्यथा ह्यनिवद्धमङ्गोपाङ्गशः समुद्रप्रतरणबद्दरध्ययवसेयं स्यात् । एतेन पूर्वाणि
स्टूनि प्राभृतानि प्राभृतप्राभृतानि अध्ययनान्युद्देशाश्च व्याख्याताः। अत्राह-मतिश्रुतयोस्तुल्यविषयत्वं वक्ष्यति “द्रव्येष्वसर्वपर्यायेषु" इति। तस्मादेकत्वमेवास्त्विति । अत्रोच्यतेउक्तमेतत् साम्प्रतकालविषयं मतिज्ञानं श्रुतज्ञानं तु त्रिकालविषयं विशुद्धतरं चेति । किं चान्यत् । मतिज्ञानमिन्द्रियानिन्द्रियनिमित्तमात्मनो स्वभाव्यात्पारिणामिक, श्रुतज्ञानं तु तत्पूर्वकमाप्तोपदेशाद्भवतीति ॥
____ अर्थ-श्रुतज्ञान मतिज्ञानपूर्वक होता है, श्रुत आप्त-वचन आगम उपदेश ऐतिह्य आम्नाय प्रवचन और जिनवचन ये सब शब्द एक ही अर्थके वाचक हैं। श्रुतज्ञान दो प्रकारका है, अङ्गबाह्य और अङ्गप्रविष्ट । इनमें अङ्गबाह्यके अनेक भेद हैं और अङ्गप्रविष्टके बारह भेद हैं । अङ्गबाह्यके अनेक भेद कौनसे हैं, सो बताते हैं-सामायिक चतुर्विशतिस्तव वन्दना प्रतिक्रमण कायव्युत्सर्ग प्रत्याख्यान दशवकालिक उत्तराध्यायदशा कल्पव्यवहार निशीथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org