________________
३६६
रायचन्द्र जैनशास्त्रमालायाम्
[ अष्टमोऽध्यायः
तिर्यग्योनिगतिनाम, मनुष्यगतिनाम, देवगतिनाम । जातिनाम्नो मूलभेदाः पंच । तद्यथा - एके न्द्रियजातिनाम, द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम, चतुरिन्द्रियजातिनाम, पञ्चेन्द्रियजातिनामेति । एकेन्द्रियजातिनामानेकविधम् । तद्यथा - पृथिवीकायिकजातिनाम, अप्रकायिकजातिनाम, तेजःकायिकजातिनाम, वायुकायिकजातिनाम, वनस्पतिकायिकजातिनामेति । तत्र पृथिवीकायिकजातिनामानेकविधम् ।। तद्यथा-शुद्धपृथिवी शर्करा बालुकोपल शिलालवणायस्त्रपु - ताम्र- सीसक-रूप्य - सुवर्ण-वज्र - हरिताल - हिडुलक - मनःशिलासस्यकाञ्चन प्रवाकाभ्रपटलाभ्रवालिकाजातिनामादि गोमेदक - रुचकाङ्क - स्फटिक लोहिताक्षजलावभास- वैडू र्यचन्द्रप्रभ चन्द्रकान्तसूर्यकान्त - जलकान्त-मसारगल्लाश्मगर्भ-सौगन्धिकपुलकारिष्ट काञ्चनमणिजातिनामादि च । अपकायिकजातिनामानेकविधम्- तद्यथा उपक्लेदावश्यायनीहारहि मघनोदक शुद्धोदकजातिनामादि । तेजःकायिकजातिनामानेकाविधम् । तद्यथा अङ्गार- ज्वालालाताचिर्मुर्मुर - शुद्धाग्निजातिनामादि । वायुकायिक जातिनामानेकविधम् । तद्यथा - उत्कलिका मण्डलिका झञ्झकायनसंवर्तक जातिनामादि । वनस्पतिकायिक जातिनामानेकविधम् । तद्यथा- कन्द-मूल-स्कन्ध-त्वकू - काष्ठ - पत्र - प्रवाल- पुष्प-फल- गुल्मगुच्छलतावल्लीतृण पर्वकायशेवाल - पनक - चलक - कुहनजातिनामादि । एवं द्वीन्द्रियजातिनामानेकविधम् । एवं त्रीन्द्रियचतुरिन्द्रियपञ्चन्द्रियजातिनामादीन्यपि ॥
शरीरनाम पञ्चविधम्- तद्यथा - औदारिकशरीरनाम, वैक्रियशरीरनाम, आहारकशरीरनाम, तैजसशरीरनाम, कार्मणशरीरनामेति । अङ्गोपाङ्गनाम त्रिविधम् । तद्यथा - औदारिकाङ्गोपाङ्गनाम वैक्रियशरीराङ्गोपाङ्गनाम, आहारकशरीराङ्गोपाङ्गनाम । पुनरेकैकमनेकविधम् । तद्यथा - अङ्गनाम तावत् शिरोनाम, उरोनाम, पृष्ठनाम, बाहुनाम, उदरनाम, पादनाम । उपाङ्गनामानेकविधम् । तद्यथा - स्पर्शनाम रसनाम, घ्राणनाम, चक्षुर्नाम, श्रोत्रनाम । तथा मस्तिष्ककपालकुकाढिकाशख ललाटतालुकपोलहनुचिबुकदशनौष्ठव नयनकर्णनासाद्युपाङ्गनामानि शिरसः । एवंसेर्वेषामङ्गानामुपाङ्गानां नामानि । जातिलिङ्गाकृतिव्यवस्था नियामकं निर्माणनाम । सत्यां प्राप्तौ निर्मितानामपि शरीराणां बन्धकं बन्धननाम । अन्यथा हि वालुकापुरुषबदबद्धानि शरीराणि स्युरिति । बद्धानामपिचसंघातविशेषजनकं प्रचयविशेषात्संघात - नाम दारुमृत्पिडायः संघातवत् । संस्थाननाम षड़िधम् । तद्यथा-समचतुरस्रनाम, न्यग्रोधपरिमण्डलनाम, साचि नाम, कुब्जनाम, वामननाम, हुण्डनामेति । संहननाम षडिधम् । तद्यथावज्रर्षभनाराच नाम, अर्धवज्रर्षभनाराचनाम, नाराचजाम, अर्धनाराचनाम, कीलिकानाम, सृपाटिकानामेति । स्पर्शनामाष्टविधं कठिननामादि । रसनामानेकविधम् तिक्तनामादि । गन्धनामानेकविधं सुरभिगन्धनामादि । वर्णनाननेकविधं कालकनामादि । गतावुत्पन्तुकामस्यान्तर्गतौ वर्तमानस्य तदभिमुखमानुपूर्व्या तत्प्रापणसमर्थमानुपूर्वीनामेति । निर्माणनिर्मितानां शरीराङ्गोपाङ्गानां विनिवेशक्रमनियामकमानुपूत्रनामेत्यपरे अगुरुलघुपरिणामनियामकमगुरुलघुनाम । शरीराङ्गोपाङ्गनेपघातकमुपघातनाम, स्वपराक्रमविजयाद्युपघातजनकं वा । परत्रासप्रतिघातादिजनकं परघातनाम । आतपसामर्थ्यजनकमातपनाम । प्रकाशसामर्थ्यजनकमुद्योतनाम । प्राणापान पुद्गलग्रहणसामर्थ्य जनक मुच्छ्रासनाम । लब्धिशिक्षधिप्रत्ययस्याकाशगमनस्यजनकं विहायोगतिनाम ।
1
पृथक्शरीरनिर्वर्तकं प्रत्येकशरीरनाम । अनेकजीव साधारण निर्वर्तकं साधारणशरीरनाम । त्रसभावनिर्वर्तकं त्रसनाम । स्थावरभावनिर्वर्तकं स्थावरनाथ । सौभाग्यनिर्वर्तकं सुभगनाम | दौर्भाग्यनिर्वर्तकं दुर्भगनाम । सौस्वर्यनिर्वर्तकं सुस्वरनाम | दौः स्वर्यनिर्वर्तकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org