________________
।।१७२॥
जन्म
ल्प अञ्जन
शक्रः सुमेरुशृङ्गस्थं, गत्वाथो पाण्डुकं वनम् । मेरुचूलादक्षिणेना-तिपाण्डुकम्बलासने ॥३॥ अभिषेकोत्सवे जैने, चतुःषष्टिः पुरन्दराः । सुमेर्वधिष्ठिते स्थाने, समेयुस्ते यथाक्रमम् ॥४॥ चमरेन्द्रो बलीन्द्रश्च, धरणेन्द्रस्तृतीयकः । भूतानेन्द्रश्च वेण्विन्द्रो, वेणुदालिस्तथैव च ।।५।। हरिकान्तो हरिसखो-ऽग्निसिंहोऽथाग्निमानवः । पूर्णेन्द्रोऽथ विशिष्टश्च, जलकान्तो जलप्रभः ।।६।। अमृतगतिर्भवनेन्द्रो-ऽमृतवाहननामतः । वेलम्बकः प्रभञ्जनः, घोषश्च महाघोषक: ॥७॥ कालेन्द्रोऽथ महाकालः, सुरूपः प्रतिरूपकः । पूर्णभद्रो मणिभद्रो, भीमो महाभीमनामकः ।।८।। किन्नरः किंपुरुषेन्द्रः, सत्पुरुषस्तथैव हि । महापुरुषव्यन्तरेन्द्रो-ऽतिकायश्च तथा परः ॥९॥ महाकायो गीतरति-गीतयशाश्च षोडश । सन्निहितः समानीतो, धाता विधाताथाऽपरः ॥१०।। ऋषीन्द्रश्च ऋषिपालः, तथेश्वरमहेश्वरौ । सुवत्सो विशालेन्द्रश्च, हासो हासरतिः पुन, ।।११।। श्वेतेन्द्रोऽथ महाश्वेतः, पतङ्गः पतङ्गरतिः, । चन्द्रादित्यौ ज्यौतिषेन्द्रौ, कल्पेन्द्रा दशधा पुनः ।।१२।। सौधर्मेन्द्र ईशानेन्द्रः, सनत्कुमारपुरन्दरः । माहेन्द्रो ब्रह्मेन्द्रश्च, लान्तकेन्द्रस्तु वज्रिणः ॥१३।। शुक्रेन्द्रश्च सहस्त्रारः, आनतप्राणताभिधः । आरणाच्युतशक्रश्च, इतीन्द्राश्चतुःषष्टिकाः
विधि
शलाका प्रति
विधि
१७२।।
।।१४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org