________________
द्रव्यानुयोगतर्कणा दिविचारेण सप्त ७ षट् ६ पञ्च ५ प्रमुखनयानां भिन्न २ विचारा भवन्ति तत्र त्वधिकभङ्गा एव जायन्ते तदा सप्तमङ्गया नियमः कुत्र स्थिरो भवति । सप्तमङ्गोनियमस्त्वत एव नियामको न दृश्यते । इति पुष्टो गुरुराह । भो शिष्य ! भवदुक्त सत्यं परमार्थतस्तु । एवं यत्त्वया गौणमुख्यव्यवहारो दर्शितस्तत्र त्वेकस्यैव नयार्थस्य मुख्यतया विधिरन्येषां तु सर्वेषामेव निषेधः । एवं विधिनिषेधौ गृहोत्वाऽनेके भङ्गाः क्रियन्ते । अस्माभिस्तु इत्थं ज्ञायते । उक्त च सकलनयार्थप्रतिपादकतापर्यायाधिकरणं वाक्यं प्रमाणवाक्यमिति । एतल्लक्षणत्वात्तादृशे स्थाने स्यात्कारपदलाञ्छितसकलनयार्थसमूहालम्बनमेकस्मिन् भङ्गेऽपि निषिद्ध नास्ति तस्माद्व्यञ्जनपर्यायस्य स्थाने २ भङ्गतार्थसिद्धिः संमतिग्रन्थविषये दर्शितास्ति । तथा च तद्ग्रन्थगाथा ।
एवं सत्तवियप्पो वयणपहोहोइ अत्थ पज्जाए ।
वंजणपज्जाए पुण सविअप्पो निम्विअप्पोय । १। अस्यार्थः । एवं पूर्वोक्तप्रकारेण सप्तविकल्पः सप्तप्रकारवचनमेव सप्तमंगीरूपवचनपन्थाः स चार्थपर्यायो योऽस्ति नास्तित्वादिविषय एव भवति । पुनर्व्यञ्जनपर्यायो घटकुम्भादिशब्दवाच्यता तत्र विषये सविकल्पविधिरूपनिर्विकल्पकविधिरूपे द्वे एव भङ्ग स्तः । परन्तु वक्तब्यादिमङ्गो न भवति । यस्मात्कारणादवक्तव्यशब्दविषयं ब्रवतां विरोधोत्पत्तिः । अथवा सविकल्पकशब्दसमभिरूढनयमते भवति । अपि च निर्विकल्पकशब्दवंभूतनयमते स्वित्थं भङ्गद्वयं ज्ञातव्यम् । अर्थनयाः प्रथमे चत्वारस्तु व्यंञ्जनपर्यायमेव नानुजानन्ति तस्मात्कारणात्तेषां नायानामिह प्रवृत्तिर्नास्ति । अत्राधिक्यन्त्वनेकान्तव्यवस्थातो ज्ञातव्यम् । तदेवमेकत्र विषये प्रतिस्वमनेकनयविप्रतिपत्तिस्थले स्यात्कारपदलाञ्छिततावनयार्थप्रकारकसप्तधालम्बनबोधजनक एक एव भङ्ग एष्टव्यो । व्यञ्जनपर्यायस्थले मङ्गद्वयम् । यदि च सर्वत्र सप्तमङ्गीनियम एवाश्वासस्तदा चालनीयन्यायेन तावन्नयार्थनिषेधबोधको द्वितीयोऽपि भङ्गस्तन्मूलकाश्चान्ये तावत्कोटिकाः पञ्चभङ्गाश्च कल्पनीयाः । इत्थमेव निराकाङ्क्षसकलभङ्गप्रतिपत्तिनिर्वाहादिति युक्त पश्यामः । अयं विचारः
स्याद्वादपण्डितेन सूक्ष्मबुद्धिमता चेतसि धार्यः । अथ फलितार्थ कथयति । इमां व्यावर्ण्यमानां सप्तमङ्गी . तत्त्वदृष्टया विमृश्यातिप्रीढियुक्तो यो भव्योऽभ्यासीकुर्यात्स आहती जैनों चरणपङ्कजमक्ति प्राप्याचिरात्स्तोककालेन कतिपयमवग्रहणेन मोक्षं गच्छेत् ॥ १४ ॥
इति श्रीभोजविनिर्मितायां द्रव्यानुयोगतर्कणायां चतुर्थोऽध्यायः ॥ ४॥ व्याख्यार्थः--इस रीतिसे एक वस्तुमें भेद पर्याय तथा अभेद पर्यायमें एक सप्तभङ्गीकी योजना की, और इस ही प्रकार सर्वत्र योजना करनी चाहिये । अब शिष्य
गुरुसे प्रश्न करता है कि हे स्वामिन् ! जहांपर केवल दो ही नयोंके विषयका विचार हो 'वहांपर एककी प्रधानतासे और दूसरेकी गौणतासे सप्तभङ्गो उत्पन्न हो, परन्तु जहांपर प्रदेश, प्रस्थ, (अवयव, अवयवी) आदिके विचारसे सप्तम षष्ठ तथा पंचम आदि नयोंके भिन्न भिन्न विचार होते हैं वहां पर तो अधिक ही भङ्ग होंगे, उस समय सप्तभंगी का अर्थात् सात ही भंग हैं यह नियम कहां स्थिर होगा ? और इसी हेतुसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org