________________
पञ्चवस्तुके उपस्थापनाद्वारम् ]
[३३३
જે વસતિના સેવનથી પરલોકમાં દુઃખ આવે તે મહાવજર્યા, જે પાંચ પ્રકારના શ્રમણો માટે કરી હોય તે સાવધા, જે (જૈન) સાધુઓ માટે જ કરી હોય તે મહાસાવદ્યા, જે વસતિ નિર્દોષ હોય તે अपठिया = निरव ४ छ. ॥थानो । संक्षेपथी अर्थ छे. [७१२] अवयवार्थं त्वाह
उउ मासं समईआ, कालाईआ उ सा भवे सिज्जा ।
सा चेव उवट्ठाणा, दुगुणा दुगुणं अवज्जित्ता ।। ७१३ ।। वृत्ति:- 'ऋता'विति ऋतुबद्धे 'मासं समतीता' या निवासेन उपलक्षणाद्वर्षाकाले वा चतुरो मासान् समतीता तु 'कालातीतैव सा भवेच्छय्या', शय्येति वसतिः,अन्ये तु पाठान्तरमित्थं व्याचक्षते-ऋतुवर्पयोः समतीता निजं कालम्-ऋतुबद्ध मासं वर्षाकाले चतुर इति, शेषं मूलवत्, 'सैवोपस्थाना' सैव-मासादिकल्पोपयुक्ता उपस्थानवती भवति, कथमित्याह-'तद्विगुणद्विगुण'मित्युभयकालसम्परिग्रहार्थं वीप्सा, 'अवजयित्वा' अपरिहत्य, मासकल्पे मासद्वयं वजनीया, वर्षावस्थाने चतुर्मासिकद्वयमिति गाथार्थः ॥ ७१३ ॥
जावंतिआ उ सिज्जा, अन्नेहि निसेविआ अभिक्कंता ।
अन्नेहि अपरिभुत्ता, अणभिक्कंता उ पविसंतो ।। ७१४ ॥ वृत्तिः- 'यावतामियं' यावत्का यावत्कैव शय्या' नान्या ‘अन्यैः' चरकादिभि निषेविता' सती 'अभिक्रान्तो'च्यते, सैव अन्यैरपरिभुक्ता' सती अनभिक्रान्तै'व, न सन्निधिमात्रेणैवेत्याह'प्रविशतः' सतः इत्थम्भूतेति गाथार्थः ॥ ७१४ ।।
अत्तट्ठकडं दाउं, जईण अन्नं करिति वज्जा उ ।
जम्हा तं पुव्वकडं, वज्जंति तओ भवे वज्जा ।। ७१५ ॥ वृत्तिः- 'आत्मार्थकृतां दत्त्वा यतिभ्यः' साधुभ्यो ऽन्यां करोति वज्यैव, यस्मात् तां पूर्वकृतां वर्जयन्ति' परदानेन, 'ततो भवेद्वर्ये 'ति गाथार्थः ॥ ७१५ ॥
पासंडकारणा खलु, आरंभो अहिणवो महावज्जा ।
समणट्ठा सावज्जा, महसावज्जा य साहूणं ॥ ७१६ ॥ वृत्तिः- 'पाषण्डकारणात् खलु आरम्भोऽभिनव' एव वसतिविषयो यस्यां सो 'महावर्जा, श्रमणार्थ'मारम्भो यस्यां सा 'सावद्या, महासावद्या च साधूनाम'र्थे आरम्भो यस्यां, निर्ग्रन्थादयः श्रमणा इति गाथार्थः ॥ ७१६ ॥
जा खलु जहुत्तदोसेहिँ वज्जिआ कारिआ सयट्ठाए । परिकम्मविप्पक्का, सा वसही अप्पकिरिया उ ॥ ७१७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org