SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ॥ धरणेन्द्रपद्मावतीसंपूजिताय ॐ ह्रीँ श्री श्री शंखेश्वर पार्श्वनाथाय नमः ॥ ॥ श्रीदान-प्रेम-रामचन्द्र-हीरसूरिगुरुभ्यो नमः ॥ ऐं नमः याकिनीमहत्तराधर्मपुत्रसुगृहीतनामधेयश्रीहरिभद्रसूरिविरचितः स्वोपज्ञशिष्यहिताव्याख्यासमेतः । श्रीपञ्चवस्तुकग्रन्थः । प्रथमो विभागः ॐ नमः श्रीसर्वज्ञाय । प्रणिपत्य जिनं वीरं, नृसुरासुरपूजितम् । व्याख्या शिष्यहिता पञ्च-वस्तुकस्य विधीयते ॥१॥ इह हि पञ्चवस्तुकाख्यं प्रकरणमारब्धुकाम आचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थं चादावेवेदं गाथासूत्रमुपन्यस्तवान् णमिऊण वद्धमाणं, सम्मं मणवयणकायजोगेहिं । संघं च पंचवत्थुग-महक्कम कित्तइस्सामि ॥ १ ॥ वृत्तिः- तत्र शिष्टानामयं समयः, यदुत- 'शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते' इति, अयमपि आचार्यो नहि न शिष्ट इत्यतः तत्समयपरिपालनाय, तथा श्रेयांसि बहुविघ्नानि भवन्तीति, उक्तं च'श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥१॥' इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतम्, अतो मा भूद् विघ्न इति विघ्नविनायकोपशान्तये 'नमिऊण वद्धमाणं सम्मं मणवयणकायजोगेहिं संघं च' इत्यनेनेष्टदेवतास्तवमाह, प्रेक्षापूर्वकारिणश्च प्रयोजनादिशून्ये न प्रवर्त्तन्ते इति, उक्तं चसर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत् तत्केन गृह्यते ॥१॥ इत्यादि, अतः प्रयोजनादिप्रतिपादनार्थं च 'पंचवत्थुगमहक्कम कित्तइस्सामि' इत्येतदाह, प्रकरणार्थकथनकालोपस्थितपरसम्भाव्यमानानुपन्यासहेतुनिराकरणार्थं वा; तथाहि-पञ्चवस्तुकाख्यं प्रकरणमारभ्यत इत्युक्ते सम्भावयत्येवं वादी पर :-नारब्धव्यमेवेदं प्रकरणं, प्रयोजनरहितत्वात्, उन्मत्तकविरुतवत् । तथा निरभिधेयत्वात्, काकदन्तपरीक्षावत् । तथाऽसम्बन्धत्वात्, दशदाडिमानीत्यादि वाक्यवत् । अतोऽमीषां हेतूनामसिद्धतोद्विभावयिषयेत्येतदाह- 'पंचवत्थुगमहक्कम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy