________________
१३२
लब्धिसार विदियकरणस्स पढमे ठिदिखंडविसेसयं तु तदियस्स । करणस्स पढमसमये दंसणमोहस्स ठिदिसंत' ।। १६२ ।। द्वितीयकरणस्य प्रथमे स्थितिखंडविशेषकं तु तृतीयस्य । करणस्य प्रथमसमये दर्शनमोहस्य स्थितिसत्त्वम् ॥ १६२ ।। दंसणमोहूणाणं बंधो संतो य अवर वरगो य । संखेये गणियकमा तेत्तीसा एत्थ पदसंखा ।। १६३ ।। दर्शनमोहोनानां बंध: सत्त्वं च अवरं वरकं च ।
संख्येयगुणितक्रमं त्रास्त्रिशदत्र पदसंख्या ॥ १६३ ॥ सं० टी० -एकादशगाथासूत्रः तान्येवाल्पबहत्वपदानि प्रतिपाद्यन्ते । तद्यथा-दर्शनमोहस्य जघन्यानुभागखंडोत्करणकालः सम्यक्त्वप्रकृत्यष्टवर्षस्थितिकरणसमयात्प्राक्तनानन्तरावस्थायां संभवन् वक्ष्यमाणात्रिशत्पदेभ्यः स्तोकोऽल्प इत्यर्थः। ज्ञानावरणाद्यायुर्वजितशेषकर्मणां जघन्यानुभागखंडोत्करणकालोऽनिवृत्तिकरणचरमभागे संभवन् सर्वतः स्तोकमिति सामान्येन जघन्यानुभागखंडोत्करणकालः संख्यातावलिमात्रोऽपि उत्तरपदापेक्षयाल्प इत्युच्यते । एक पदं १ । तस्मादपूर्वकरणप्रथमसमये प्रारभ्यमाणोत्कृष्टानुभागखंडोत्करणकालो विशेषाधिकः २१५, विशेषप्रमाणं जघन्यानुभागखंडोत्करणकालसंख्यातैभागमात्रं द्वितीयं पदं २ ।
तस्मादनिवृत्तिकरणचरमभागे संभवन् जघन्यस्थितिकांडकोत्करणकालः संख्यातगुणः २ १।५ । ४ तृतीयं
पदं ३ । तस्मादपूर्वकरणप्रथमसमये घटमानः उत्कृष्ट स्थितिखण्डोत्करणकालो विशेषाधिकः २ २५ ४ ५
चतुर्थं पदं ४ । तस्मात्कृतकृत्यवेदककालः संख्यातगुणः २ १।५ । ४ । ५ । ४ इदमपवर्त्य लिखिते एवं
२११पंचमं पदं ५ । अस्मात्सभ्यक्त्वप्रकृतिक्षपणकाल: अष्टवर्षकरणप्रथमसमयादारभ्य कृतकृत्यवेदकचरमसमयपर्यंतमपपद्यमानः संख्यातगणः २११४ षष्ठं पदं ६ । अस्मादनिबृत्तिकरणकालः संख्यातगुणः २१२।४ । ४ सप्तमं पदं ७ । तस्मादपूर्वकरणकालः संख्यातगुणः २०।४।४ । ४ अष्टमं पदं ८। अमुष्मादपूर्वकरणप्रथमसमये प्रारब्धगुणश्रेण्यायामो विशेषाधिकः २११।४ । ४ । ४। ४ विशेषप्रमाणमनिवृत्तिकरणकालस्तत्संख्यातभागश्च ९ । तस्मात्सम्यक्त्वप्रकृतद्धिचरमस्थितिकांडकायामः संख्यातगुणः २११। ४ । ४ । ४ । ४ गुणिते एवं २१ दशमं पदं १० । अस्मात्सभ्यक्त्वप्रकृतिचरमस्थितिकांडकायामः संख्यातगुणः २१४ एकादशं पदं ११ । एतस्मादष्टवर्षप्रथमसमये सम्यक्त्वप्रकृतिस्थितिकांडकायामः संख्यात
१. अपुवकरणे पढमस्स उक्कस्सटिदिखंडयस्स विसेसो संखेज्जगणी । दंसणमोहणीयस्स अणियट्रिपढमसमयं पविट्ठस्स ट्रिदिसंतकम्म संखेज्जगुणं। वही, पृ० ९९ ।
२. दंसणमोहणीयवज्जाणं कम्माणं जहण्णओ ट्रिदिबंधो संखेज्जगणो। तेसिं चेव उक्कस्सओ दिदिबंधो संखेज्जगुणो। जहण्णयं दसणमोहणीयवज्जाणं जहण्णयं छिदिसंतकम्मं संखेज्जगुणं । तेसिं चंव उकास्सियं ट्ठिदिसंतकम्मं संखेज्जगुण । वही । वही पृ० ९९-१००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |