SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ अरणहिलपुरमस्ति स्वस्तिपात्रं प्रजानामजरजि [द्] रघुतुल्यैः पाल्यमानं चुलुक्यैः । विरमति रमणीनां यत्र [वक्त्रे]न्दु [मन्दी] कृत इव सितपक्षप्रक्षयेऽप्यन्धकारः ।।3।। तत्र प्राग्वाटान्वयमुकुट कुटजप्रसूनविशदयशाः । दानविनिज्जितकल्पद्रुमषं [खं] डश्चण्डपः समभूत् ।।4।। चण्डप्रसादसंज्ञः स्वकुलप्रासादहेमदण्डोऽस्य । प्रसरत्कीर्तिपताकः पुण्यविपाकेन सूनुरभूत् ।।5।। आत्मगुणैः किरणैरिव सोमो रोमोद्गम सतां कुर्वन् । उदगादगाधमध्याद्दुग्धोदधिबान्धवात्तस्मात् ।।6।। एतस्मादजनि जिनाधिनाथभक्ति बिभ्राणः स्वमनसि शश्वदश्वराजः । तस्यासीद्दयिततमा कुमारदेवी देवीव त्रिपुररिपोः कुमारमाता ।।7।। ___ तयोः प्रथमपुत्रोऽभून्मन्त्री लूणिगसंज्ञया । दैवादवाप बालोऽपि सालोक्यं वासवेन सः ।।8।। पूर्वमेव सचिवः स कोविदै-गण्यते स्म गुणवत्सु लूरिणगः । यस्य निस्तुषमतेर्मनीषया धिक्कृतेव धिषणस्य धीरपि ॥9॥ श्रीमल्लदेवः श्रितमल्लिदेव-स्तस्यानुजो मन्त्रिमतल्लिकोऽभूत् । बभूव यस्यान्यधनांगनासु लुब्धा न बुद्धिः शमलब्धबुद्ध: ।।10।। धर्मविधाने भुवनच्छिद्रपिधाने विभिन्नसन्धाने । सृष्टिकृता न हि सृष्टः प्रतिमल्लो मल्लदेवस्य ।।11।। नीलनीरदकदम्बक मुक्तश्वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गलहस्तो हस्तिमल्लदशनांशुषु दत्तः ।12।। तस्यानुजो विजयते विजितेन्द्रियस्य सारस्वतामृतकृताद्भुतहर्षवर्षः । श्रीवस्तु (पा)ल इति भालतलस्थितानि दौस्थ्याक्षराणि सुकृती कृतिनां विलुम्पन् ।।13।। विरचयति वस्तुपालश्चुलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा ।।14।। तेजःपाल: पालितस्वामि तेजः पुञ्जः सोऽयं राजते मन्त्रिराजः । दुर्वृत्तानां शंकनीयः कनीया-नस्य भ्राता विश्वविभ्रान्तकीत्तिः ।।15।। 16 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy