SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ संहृत्य शत्रून् प्रबलानु (न्) बलेन श्रीप्रबु(बु)दं प्राप्य नगाधिराजम् । भुक्त्वा स भूमण्डल राज्यमुच्चैः स्वर्लोकलोकाधिपतिर्बभूव ।।20।। लुरिणगस्य तनुजो जगज्जयी तेजसिंह इति तेजसां निधिः । यत्प्रतापदवपावकश्चिरं वैरिवर्गविपदं (वधं)न (द)हति स्म ।।21।। कराग्रजाग्र [त्] करवालदण्ड-खण्डीकृताशेषविरोधिवर्ग : । पृथ्यां (थ्व्यां) प्रसिद्धस्तिहुणाकनामा वीरावतंसः स चिरायुरस्तु ।।221 श्रीमल्लुम्भकनामा समन्वितस्तेजसिंह-तिगु(हु) णाभ्याम् । अबु (बु)दगिरीशराज्यं न्यायनि (धिः) पालयामास ।।23।। [मंडोउर]पुरवासी सुगुरुश्रीधर्मसूरिपदभक्तः । सर्वज्ञशासनरतः स जयति जेल्हाभिधः श्रेष्टी (ष्ठी) ।।24।। तत्तनयः सुनयो [s] भूत् वे [ल्हा] कः सकलभू[तलख्यातः] । तत्पुत्रः सुचरित्रः पुण्यनिधिः पारसः साधुः ॥25॥ सोही-देगा-देसल-कुलधरनाम्ना तदंगजा जाताः । चत्वारः कुलमन्दिरसुदृढस्तम्भाभिरामास्ते ।।26।। श्रीदेसलः सुकृतपेसलवित्तकोटिश्चञ्चच्चतुर्दशजगज्जनितावदातः । शत्रुञ्जयप्रमुखविश्रुतसप्ततीर्थ यात्राश्चतुर्दश चकार महामहेन ।।27।। देमति-माई नाम्नी साधुश्रीदेसलस्य भार्ये द्वे । निर्मलशीलगुणाढ्ये दयाक्षमे जैनधर्मस्य ।।28।। देमतिकुक्षिप्रभवा गोसल-गयपाल-भीमनामानः । माईकुक्षेतिौ मोहण-मो (सो) हाभिधौ पुत्रौ ।।29।। जिनशासनकमलरविः साधुः श्रीगोसलो विशदकीर्तिः । गुणरत्नरोहणधरा गुणदेवी प्रियतमा तस्य ।।30।। सद्धर्मकर्मैकनिबद्धबुद्धिस्तदंगजः श्रीधनसिंहसाधुः । भार्या तदीया सदया वदाज्ञा (न्या) मान्या सतां धान्धलदेविसंज्ञा ॥31॥ साधोमी (ी) मस्य सुतो हांसलदेकुक्षिसम्भवः श्रीमान् । महिमानिधिर्महौजा महामतिर्महणसिंहाख्यः ।।32।। - मयणल्लदेवीवरकुक्षिशुक्ति-मुक्तास्त्रयस्तत्तनया जयन्ति । ज्येष्टो (ष्ठो) जगद्व्यापियश-प्रकाशः साध्वग्रणीला (ब) लिगसाधुराजः ।।3311 14 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy