SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २६ पद्मसुन्दरविरचितं द्रव्यं तावदनुज्झदन्वयमय शक्ति सदेवास्य या पर्यायव्यतिरेक विस्फुरणताविर्भावताऽस्यामपि । द्रव्यस्यान्वयशक्तितोऽच्युतिरनन्यद्रव्यमेव ध्रुवं निश्चीयेत ततः सतो ननु सदुत्पादो ह्यनन्यत्वतः ॥ ७९ ॥ पर्याय दुर्ललित वृत्तिरवश्यमेव द्रव्यस्य भाविनि भविष्यति तेन भृत्वा । स्वामन्वयाङ्कुरितशक्तिमनुज्झ देतद् Jain Education International द्रव्यं भवन् कथमतोऽन्यतमोऽस्ति जीवः ||८०|| नामर्त्यः खलु मर्त्यतामुपगतो मर्त्यो न चामर्त्यतां सिद्धोऽसिद्धतया स सिद्ध इति वाऽनन्यः कथं चान्यतः । पर्यायाः समये निजे यदि तदा सन्तोऽप्य सन्तोऽन्यतो द्रव्यस्याप्यपृथक्तयानुभवतः स्याद् वासदुत्पादता ॥ ८१ ॥ येन जातमनुजादिभवत्वं द्रव्यमन्यदिह जातु न स्यात् । जायमानवलयादिविकार कान्तकाञ्चनमिव प्रतिभाति ॥८२॥ यैः सामान्यविशेषजन्यविधिना द्रव्यार्थिकं वस्तुतः पर्यायार्थिकमाकलय्य युगपद् द्वैतं समालोक्यते । यद्येकान्तनिमीलितः स्फुरति तत् पर्यायभेदक्रमः शुद्धद्रव्यनिमीलने तदपरः प्रोन्मीलतेऽन्यत्ववत् ॥ ८३ ॥ सर्वावलोकनतया प्रतिषिध्यते न चक्षुर्द्वयेन यदि दर्शनमेकवेलम् । अन्यत्वमस्य यदनन्यतमत्वमेकचक्षुर्दशा भवति चैकदिशावलोकः ॥८४॥ स्यादस्त्येव सतः स्वरूपभवनान्नास्त्येव यद्वाऽसतोsन्यस्मादेतदवाच्यमेव युगपत् स्यादस्ति नास्त्येव यत् । स्वान्याभ्यां क्रमतोऽस्त्यवाच्यमभितः स्यान्नास्त्यवक्तव्यवच्चान्यस्वान्यसमत्वतोऽस्ति न च वा वक्तव्यमेतैः समैः ||८५ ॥ ७९-८२ = तदी २.२०-२१ । ८३-८४ = तदी २.२२ । ८५-८७ = तदी २.२२ । For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy