SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रोदयनाटकम् । सत् स्वतोऽस्ति पररूपतोऽप्यसत् स्वान्यतो भवति वक्तुमक्षमम् । सप्तसप्तिरिव सप्तभङ्गिका स्तोममूहतमसामुदस्यति ॥ ८६ ॥ Jain Education International इत्येवं नयसङ्ग्रइङ्ग्रहसमावेशः समादेशयत्यन्येषामनुभूतिमत्रममृते स्वद्रव्यतायाः पृथक् । स्यात्काराङ्कितविक्लवक्लमतमव्यासादिवासादय न्नात्माराममनन्तधाम परमव्याकोशितान्तर्दृशा ॥ ८७॥ विशेष संविदनुभूतिप्रपञ्चो निष्क्रान्तः । अथ प्रविशति क्रियाकारणं कर्म । जीवस्यानादिकर्मप्रचयपरिचयस्पन्दनेन क्रियेयं निर्वृत्तवास्ति नित्यं निजसहजर सोनमज्जदत्यन्तवृत्तिः । टोत्कीर्णस्वभावः क्वचन न च पृथक् पर्ययेभ्योऽभितः प्राग् मोहात् साफल्यमेति द्वितयपरिणतेरुत्तरा निष्फलैव ॥ ८८ ॥ क्रिया फलवती यदि स्फुरति हेतुभृतात्मनः शुभान्यतरकर्मणां प्रकृतिभिः स्वकार्यं तदा । ननु प्रचुरपर्ययाः समभियोगसंयोगतः स पुद्गलनटोद्भटो नयति नानटोति स्फुटम् ॥ ८९ ॥ यावन्नामगुणादिपर्ययपरिच्छेत्ता न तावत् स्वभावान्तर्भावविभावलुण्टनपटुर्ज्ञानोपलम्भादृते । स्वैरोज्जागररङ्गसङ्गमरसास्वादादनास्वादय न्निस्तन्द्रापर भावलावणरसं निःश्वस्य विश्राम्यति ॥९०॥ कश्चिज्जातु न जायते किमपि न प्रक्षीयते तत्त्वतः पर्यायाः क्षणभङ्गभङ्गुरतरा गङ्गातरङ्गा इव । यस्तेषां स्खलु संभवः स विलयप्रादुर्भवः संभवत्यन्योन्यं घटकुम्भयोरिव मृदोऽनेकत्वमेकत्ववत् ॥ ९१ ॥ ८८ = तदी २. २४ । ८९ =तदी २.२५ । ९१ = प्रसा २.२७; तदी २.२७ For Private & Personal Use Only २७ www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy