SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रोदयनाटकम् । द्रव्यं तन्न गुणो गुणो न तदिति स्यादप्यतद्भावता... न द्रव्यव्यतिरिक्त एव हि गुणो नैतत् तदाभासकम् । ... नैवं चेदुभयोरपोहपरता शून्यत्वमप्येतयोरेकत्वं प्रवितय॑तर्कितमतिर्द्रव्याविरुद्धं भजेत् ॥७॥ सत्स्वभावमधितिष्ठति तस्मात् सोऽपि तत्परिणतिर्गुण एव । अस्तिताऽस्ति सत इत्यनुवृत्त्या सिद्धयतीह गुणता गुणवत्ता ॥७१॥ न जातु गुणपर्यायौ भवेतां द्रव्यतः पृथक् । ततस्तदभवनेनैव सत्ताऽन्तु स्वयमेव तत् ॥७२॥ प्रादुर्भावमनाद्यनन्तमसकृत् सत्तानिबद्धं लसेत् पर्यायाधभिधेयतासु तद सद्भावे निबद्धा स्थितिः । तस्मादस्त्वविरोधता सदसतोरुत्पादभेदस्य सद्भावोऽस्त्यन्वयशक्तिभिस्त दितव्यक्तीस्तु सङ्कामतः ॥७३॥ न चाङ्गदादिपर्याया हेमैवान्वयशक्तिभिः । तदन्यव्यक्तिसङ्कामाद्धेम्नः सदभावता स्फुटम् ॥७४॥ न द्रव्यं खलु पर्ययानुभवनात् पर्यायनिष्पादकव्यक्तित्वेन यदन्वयाङ्कित लसच्छक्तोस्तु सङ्कामतः । द्रव्यासद्भवनप्रभूतिरभवच्चेद(चेदङ्)गदाधानतद्वेम स्वव्यतिरेकतापरिलसद्व्यक्तित्वनिष्पादनात् । ७५॥ व्यतिरेकानुकारिण्या व्यक्तयोऽन्वयशक्तिताम् । प्रपन्नाः प्रर्ययानेव द्रव्योकुर्युये थाऽङ्गदः ॥७६॥ व्यतिरेकत्वमापन्ना द्रव्यमन्वयशक्तयः । पर्यायीकुर्युरासाद्य क्रमवृत्ति हिरण्यवत् ॥७७।। द्रव्यादेशतस्तस्मादुत्पादस्तु सतो मतः । पर्यायादेशतः सत्यमुत्पादोऽसत इष्यताम् ॥७८।। ६९=तदी २.१५ । ७० प्रसा २.१६; तदी २. १६ । ७१ = प्रसा २.१७, तदी २.१७ । ७२ = प्रसा २.१८, तदी २.१८ । ७३-७८ = तदी २.१९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy