________________
२४
Jain Education International
• पद्मसुन्दरविरचितं
वर्धमानमृदोऽन्तःस्थान्युत्पादादीनि सैव मृत् । न च वस्त्वन्तरं तद्वद् द्रव्यमेव निरन्तरम् ||६ ३|| शुद्धद्रव्यविमर्शनेन च निजद्रव्यं न जातं न वा नष्टं शिष्टतरस्वरूपमचलं शुद्धस्वभावस्थितम् । भिद्यन्ते किल पर्ययास्तदसमा द्रव्यस्य गत्यादिभि भेदैर्भङ्गभवध्रुवात्मकतया द्रव्यत्वमेकं पृथक् ।।६४।। एकः शुद्धनयेन चित्परिणतद्रव्यार्थिकेन स्फुटं नित्यो नित्यतमै वस्तु विलसद्विज्ञानदुग्धाम्बुधिः । पर्यायाः प्रलयं व्रजन्तु यदि वा प्रादुर्भवन्तु स्वयं कल्लोला इव नाहमस्मि सहजज्ञानैकलीनोऽच्युतः ॥ ६५ ॥ न स्यात् सद् द्वितयीगतिर्भवदसत् सत्तास्वरूपात् पृथक् तत्रासद् ध्रुवसर्गतोऽजननितः स्वात्मानमस्थापयत् । द्रव्यं व्यस्त समस्तमस्तमयति स्यात् सत्तयोः संभवादात्मानं परिविभ्रदुद्गमयतात् सत्तामथोद्गच्छतु ॥ ६६॥
प्रविभक्तप्रदेशस्वं तत् पृथक्त्वस्य लक्षणम् । न सत्ता- द्रव्ययोरस्ति जातु शुक्लोत्तरीयवत् ॥६७॥
भवति यदपि सत्ता - द्रव्ययोरन्यता चेद् गुणगुणिवदनेकं स्यादतद्भावभावात् । उदित गुणविशेष्यं द्रव्यमन्यस्वरूपा स्फुरति विदितसत्ता नैकमेकान्तवृत्त्या ॥६८॥
स्रग्दाम हार इति सूत्रमिति स्फुरन्ति मुक्ताफलानि यदिति त्रिविधं विधानम् । शुक्लो गुणः स च न तानि न तानि सस्याद्
इतीतराश्रयविनाभवने परत्वम् ||६९ ||
13
६४ = प्रसा २.११, तदी २.११ । ६६ = प्रसा २.१३, तदी २.१३ । ६७-६८ = प्रसा २, १४, तदी २.१४ /
For Private & Personal Use Only
www.jainelibrary.org