SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदिकावृत्तिः भूरिक्रियायोगे दीपकमाचष्टे " विराजन्ते तमिस्त्राणि द्योतन्ते दिवि तारकाः । विभान्ति कुमुदश्रेण्यः शोभन्ते निशि दीपकाः ॥ १०२ ॥ निशिक्षणदायां, तमांस्येव तमिस्राणि । अन्ये तद्धितोरः उपाध्याया इत्थं चेति । तमिस्राणि ध्वान्तानि विराजन्ते, यामिन्यां व्योम्नि तारका द्योतन्ते प्रकाशन्ते, शर्वय कुमुदश्रेण्यः कैरवराजयः विभान्ति, दीपकाः कज्जलध्वजाः विभावर्या विभ्राजन्ते । तदुक्तं यत्रैकमनेकेषां वाक्यानां क्रियापदं भवति । तद्वत्कारकपदमपि तदेतदिति दीपकं द्वेधा || १|| [ रु. का. ७.६४ ] अतिशयभेदः पूर्वं च यत्रास्ति प्रबलतया विवक्ष्यते । पूर्वमेव नास्य प्रादुर्भावः पश्चाज्जनकस्य तद्भवेत्पूर्वम् ||२|| दुर्लभजनमभिलषतामादौ दन्दह्यते मनो यूनाम् । गुरुरनिवारप्रसरः पश्चान्मदनानलो ज्वलति ||३||१०२ || वस्तुनो वक्तुमुत्कर्षमसम्भाव्यं यदुच्यते । ६९ वदन्त्यतिशयाख्यं तमलङ्कारं बुधाः, यथा ॥१०३॥ वस्तुनो वर्णनीयपदार्थस्य उत्कर्षं वक्तुमतिरेकत्वं प्रतिपादयितुं यदसम्भाव्यं सम्भावयितुमनर्हमुच्यते, बुधाः मेधाविनः; तमतिशयाख्यं - अतिशेतेऽनेनातिशयोऽतिशयनं वालङ्कारं ब्रुवन्ति । यथेत्यनेनोदाहरिष्यते पुरो वृत्ते ||१०३॥ Jain Education International त्वदारितारितरुणीश्वसितानिलेन सम्मूर्छितोर्मिषु महोदधिषु क्षितीश । अन्तर्लुठद्गिरिपरस्परशृङ्गसङ्गघोरारवैर्मुर रिपोरपयाति निद्रा ॥ १०४ ॥ 50 " क्षितीश, हे राजन् । महोदधिषु उदका निधीयन्त एष्विति उदधयः । उदकं चेति कर्मण्यधिकरणे चेति किः संज्ञायां लोकोपचारादुदकस्योदादेशः । महान्तश्च ते उदधयश्च महोदधयः, तेषु महार्णवेषु । मुररिपोः जनार्दनस्य, नियतं द्रान्तीन्द्रियाण्यस्यां प्रमीला अपयाति । " अपपरी वर्जने " [ पा. अ. १.४८८ ] दूरे व्रजति । स्वापभङ्गः स्यादित्यर्थः । कैः कृत्वा ? अन्तर्मध्ये, लुठन्तश्च ते गिरयो धराधराश्च तथा तेषां यः परस्परमन्योन्यं शृणन्ति शीर्यत एभिर्वा शृङ्गाणि शृणातेरङ्ग इत्यङ्गप्रत्यये ह्रस्वत्वे धातोः परस्याकारस्य लोपे चेति शृङ्गाणि तेषां भङ्गः शृङ्गभङ्गः सान्द्रास्फालन तेन घोराः भयानकाः ये आरवाः ध्वनयः, तैः कृत्वा । किविशिष्टेषु महोदधिषु ? त्वया दारिताः भेदिताः येऽरयोsरातयः तेषां तरुण्यः युवतयः, तासां श्वसितानिल निःश्वसितपवनः तेन संमूर्च्छिता समेधिताः, ऊर्मयः महाकल्लोला येषु ते, तथा तेषु । इह प्राग्निःश्वसितानिलेन सागरक्षोभो न भवति, कुस्तरां तदन्तर्वर्ति सानुमदन्योन्यसान्वास्फालनं कुतस्तमां पीताम्बरस्य निद्राभङ्गः । परमेतावताऽत्र भूपतेर्युगपदेतत्सकलासम्भाव्य पदार्थ सम्बन्धाभिधानादसम्बन्धेऽपि स्वप्रतापाधिक्येडा सम्बन्धरूपाऽतिशयोक्तिरसूचि । तथोक्तं तत्रैव 'तपने' त्यादिषट्षष्ठितमवृत्तवृत्तौ । अत्र पुरे, युगपत्सर्वर्तुका सम्बन्धाभिधानादसम्बन्धेऽपि सम्बन्धरूपाऽतिशयोक्तिः " [शि १.६६] ॥१०४॥ 50 'पृथ्वीश'-- पा.: 'पृथ्वीपते' व. For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy