________________
ज्ञानप्रमोदिकावृत्तिः
तं शोकं मा निर्मिमोष्व । किरति करीरः करिण. ईरयति कण्टकैः वा दुःशाखाः, तस्य द्रुमः, स चासौ द्रुमश्च करीरद्रुमः, तस्य करतरोः कुसुमेषु प्रसूनेषु विचर । नु इति वितके खेदे वा । सा मालतो-मालयत्यामोदैः मालतीजाति. कथं मिलति ? किंविशिष्टा ? घनः भूयान् सान्द्रो वा योऽसौ तुहिनपातः प्रालेयपतनं, तेन दलिता दग्धा । एतदर्थमाह हे वयस्य, त्वमन्यनितन्बिनीषु रमस्व । आपत्काले नास्ति मर्यादेति न्यायात् । वियोगिजनलक्षणाद्वितयं प्रतिपादितमित्याकूतम् । तथोक्त तत्रैव- 'स्पृशन्' इत्याद्यष्टाफचाशत्तमकाव्यटीकायाम् । इह प्रस्तुतसूर्यविशेषणमात्रसाम्यादप्रस्तुतप्रसाधकप्रतीतेः समासोक्तिरलङ्कारः ।।९७|| इदानी विभावनां लक्षति
विना कारणसभावं यत्र कार्यस्य दर्शनम् ।
नैसर्गिकगुणोत्कर्षभावनात्सा विभावना ॥९८॥ सर्वत्र हि स्थले अनन्यथासिद्धनियतपूर्ववर्तित्वलक्षणेन कारणेनान्यथासिद्धनियतपश्चाद्भाविलणं कार्य निरीक्षितम् । यथा नैयायिकानां मते शिवेच्छया अणुषु क्रियायां प्रादुर्भूतायां द्वथणुकाद्यनन्तकाणुकाव सानप्रभृतिककरणः पृथिव्यादिरूपं कार्यमुत्पद्यते । तत्संजिहीर्षयैव तांद्वलयश्च सांख्यानां प्रकृतिपुरुषसंयोगबीजाद्बुध्यहकारतन्मात्रापञ्चमहाभूतादिकृत्यप्रादुर्भावो, मीमांसकविशेषाणां स्याद्वादिनां च स्वकृतः कर्मणो जन्तूनां सातासातप्रमुखोद्भबो ब्रह्मा, अद्वैतवादिनां ब्रह्मणो विश्वसृष्टिः, बौद्धानामभिमतार्थसत्य. चतुष्टयाच्च बोजात् क्षणिकप्तर्वसंस्कारादिकृत्याविर्भावः स्यात्, इत्येतदनन्तरोदीरितपृथकारणनिकरात तत्तदुत्तरोदतनानाविधकार्यकदम्बकं जायते । समस्तानुमतमिदम् । इह तु यत्र यस्यामलड-कृतौ कारणसद्भावं विना कार्यस्य दर्शनं स्यात् सा विपश्चिद्भिः विभावनाऽलंकियोच्यते । कस्मात ? निसृण्यतेऽनेन निसर्गः, तत्रभवो नैसर्गिक स्वाभाविक , स चासौ गुणोत्कर्षश्च, स तथा । तस्य विभावनं स्पष्टतापादनं, तस्मात् ॥९८॥
साम्प्रतमुदाहरति
अनध्ययनविद्वांसो निर्देव्यपरमेश्वराः ।
अनलंकारसुभगाः पान्तु युष्मान् जिनेश्वराः ॥९९ जिनेश्वराः अहन्तः वः युष्मान् पान्तु रक्षन्तु इत्यन्वयः। कीदृशाः ? न विद्यतेऽध्ययनं पठनमेषामित्यनध्ययनाः । ते च ते विद्वांसश्चेति कर्मधारयः । इत्थं पुरोऽपि इहाध्ययनलक्षणं कारणं, विद्वत्तारूपं कार्य; अपरें भूपृशः पठनेन पण्डिता स्युः । त्रिकालविदस्त्वध्ययनमन्तरेण विद्वांसः । एवमितरे मनुजाः विभवेन परमैश्वर्यशालिनो भवन्ति, परमेष्ठिनश्व निर्देव्याः निःस्वाः अपि परमेश्वराः त्रैलोक्यलक्ष्मीनायकाः । इतरे जनाः अलङ्कारः सौन्दर्यभाजः, अर्हन्तस्तु ते विनापि सौभाग्यशालिनः स्युः । सहजज्ञानतीर्थकरकमसर्वोत्तमरूपातिशयत्वं नैसर्गिकगुणोत्कर्षात् । एतेन जिनेश्वगणां प्रागुदीरितं कारणसभावमन्तरेणोदीरितकार्य दृष्टं; मृत्पिण्डतन्तुप्रभृतिकबीजानां च कलसचीवरादिकायावधाने प्रायशोऽचतन्येन तादृशगुणोत्कर्षाऽसत्त्वम् । तेन तेरेव समवाय्यसमवायिनिमित्तकारणः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org