________________
६६
ज्ञानप्रमोदगणिनिवदा इदानीमश्लिष्टमुदाहरति--
शुण्डादण्डैः कम्पिताः कुजराणां पुष्पोत्सर्ग पादपाश्चारु चक्रुः ।
स्तब्धाकाराः किं प्रयच्छन्ति किञ्चित्कान्ता यावन्नोद्घतैर्वीतशङ्कम् ॥१४॥ पादै लै. पिबन्तीति पादपास्तरवः, कूजन्ति कुजराः, कुजौ हनूदन्तौ वा, ते । एषामिति वा । को जीर्यन्ति वा कुजराः मत्तेभाः । तेषां शुण्डादण्डैः कम्पिताः आन्दोलिताः सन्तः । चारु यथा स्यात्तथा । पुष्पाणां प्रसूनानां, उत्सर्गस्त्यागः, तं पुष्पोत्सर्ग कुसुमोत्सर्जनं विदधुः । इहार्थमन्यं न्यस्यति । उद्धनैरविनीतैः पुभिः; वीतशङ्क-वीता गता, शङ्का यत्र तद्वीतशङ्कम् । विगतानिष्ट सम्भावन यथा भवति । तथा यावदाक्रान्ताः न सन्ति तावत् स्तब्धाकाराः स्थिराः अनम्राः । अथ च जाल्माः अदातार इति यावत् । किञ्चित् , किं प्रयच्छन्ति ? अपि तु न प्रयच्छन्ति । उद्दण्डचण्डैराहता एवं वितरन्तीति भावः । एतेन अर्थान्तरन्यासस्य उपमेय पुरस्कृतोऽर्थान्तरन्यासः, कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासश्चेति द्वैविध्यं प्रख्यापितमित्याशयः । ग्रन्थान्तरोक्तं त्वदः अभिधेयमभिधानं, तदेव सदृशं समस्तदोषगुणम् अर्थान्तरमवगमयति वाक्यं यदसौपरो भावः ।१।९४॥ एतर्हि समासोक्तिं ब्रूते
उच्यते वक्तु मिष्टस्य प्रतीतिजननक्षमम् ।
सधर्म' या वस्त्वन्यत्समासोक्तिरियं, यथा ॥९५। यत्र यस्यामलड् कृतौ, वक्त्तु भाषितुं, इष्टस्येप्सितस्य बस्तुनः, प्रतीत्युपार्जनशक्तं सधर्म तुल्यं, अन्यदपरं वस्तूच्यते, इयं समासोक्तिः अभिधानान्तरेण अन्योक्तिश्च बुधे ण्यते । यथे यभिधास्यमानोदाहरणे ॥९॥
चिन्तयति न चूतलतां याति न जाति केकी क्रमते ।
कमललतालग्नमना मधुपयुवा केवलं क्वणति ॥९६॥* मधुपयुवा-मधु पुष्परसं मद्यं च पिबति मधुपः, स चासौ युवा तरुणश्च, तथा । केवलं क्वणति, ध्वनिविशेषं विधत्ते । अन्यच्च किमपि न घटयति । तदेवाह -सहकारलतां न चिन्तयति, चेतनायत्तां न निर्मिमीते । जायतेऽस्यां पुष्पादिर्जातिः मालती, तां जाति प्रति न गच्छति । इह क्रियापदकदम्बकसामर्थ्यात् अनुदितोऽपि च समुच्चयार्थी गृह्यते । अतः च पुनः, केतकी न क्रमते । यतः एव प्रागापीत नलिनलतारमसर्वस्वाध्यानविह्वलाशयश्च, अत एव एतदर्थसूचकं विशेषणमभिधत्ते । कथंभूतः ? काललतायां मग्नमासक्त, मनोऽन्तःकरणं, यस्य सः कमललतालग्नमनाः ॥९६।।
मधुकर मा कुरु शोकं विचर करीरद्रुमस्य कुसुमेषु ।
घनतुहिनपात दलिता कथं नु सा मालती मिलति ॥९७॥ कस्मिंश्चिच्चेतोऽभीष्टायां वल्लभायां व्यापन्नायां सत्यां खेदं विदधति ब्रूते । हे मधुकर, शोचनं शोकः, 4+ अत्रत्यकारिकाद्वय ९६-९७ इत्यस्य क्रम: पा. पुस्तके विपरीतरूप; प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org