________________
ज्ञानप्रमोदिकावृत्तिः
नभस्तले किश्चिदिव प्रविष्टाश्चकाशिरे चन्द्ररुचिप्ररोहाः ।
जगदिगलित्वा हसतः प्रमोदादन्ता इव ध्वान्तनिशाचरस्य ॥११॥ शशधरार्चिरङ्कुराः गगनतले किञ्चिदिव मनागिव, प्रविष्टाः रेजिरे । उत्प्रेक्ष्यन्ते । जंगम्यते इति जगत विश्वम । गिलित्वा प्रमोदारसम्मदात हेतोः हास्यं विदधतः सन्तमस नृचक्षसः दन्ता इव दशना इव । एतेनेन्दुज्योतिरकुराणामन्धकारस्य चान्यथाकल्पनमुत्प्रेक्ष्येत्यावेदितम । तदक्तं माघतृतीयसर्गस्थ 'तेने' त्यादिनवमवृत्तवृत्तौ। हरेर्यत्र कौस्तुभमणौ प्रतिबिम्बितो बाह्यलोकः, तदङ्ग एव नर्मल्याबहिः प्रतिफलितः कुक्षिस्थलोक इवालक्ष्यते इत्युत्प्रेक्षा । 'इव' शब्दोऽयमुत्प्रेक्षाव्य-जक एव, नोपमायाः ॥९॥ अधुनार्थान्तरन्यासं लक्षयति
उक्तसिद्धयर्थमन्यार्थन्यासो व्याप्तिपुरःसरः ।
कथ्यतेऽर्थान्तरन्यासः श्लिष्टोऽश्लिष्टश्च स द्विधा ॥९२॥ उक्तस्य प्राग्भणितस्य, सिद्धार्थ-सिद्धयत्यनयाऽस्यां वा सिद्धिः निष्पत्तिः, तस्यै इदं सिद्धयर्थम् । अर्थेन नित्यसमासः सर्वलिङ्गता च प्रस्तावापन्नार्थसमर्थनाय योऽन्यार्थन्यासः सोऽर्थान्तरन्यासः सुधो भः कथ्यते । किंलक्षणः ? व्याप्तिपुरःसरः । एवं सर्वत्र घटत इति व्याप्तिः पुरःसरा यस्मिन्सः व्याप्तिपुरःसरो व्याप्तिपूर्वक इत्यर्थः । स च द्विविधः । एकः श्लिष्टः श्लेषयुक्तः, च पुनः, अपरोऽनिलप्टः लेषरहितः ॥९२।।
श्लिष्टमुदाहरति - शौणत्वमक्ष्णामसिताब्जभासां गिरां प्रचारस्त्वपरप्रकारः ।
बभूव पानान्मधुनो वधूनामचिन्तनीयो हि सुरानुभावः ॥१३॥ उद्यन्ते वध्वः । वहोधश्चेत्यूप्रत्यये धातोर्धश्चेत्यन्तादेशे । “वधूर्जायास्नुषास्त्री चे"त्यमरः । [ ३ ३.१०२] उक्तवांस्तासां स्त्रीणाम् । मन्यते मधुः । फलिपाटिनमिमनिजनां गुक् । पटिना किवताश्चेत्युपत्यये धातोर्धश्चेत्यन्तादेशे । “मधुश्चैत्रे च दैत्ये च मधुपुष्परसे मधुः"45 इति विश्वः [विश्वप्रकाशे धद्विके ११] तस्य मधुनः कश्यस्य पानादक्ष्णामम्बकानां शोणत्वं लौहित्यमस्ति । किंलक्षगानाम् असिताब्जवदिन्दीवर पत् भाः कान्तिः, येषां तानि, तेषामसिताजभासाम् । तु पुनः, गिरां वाचा, प्रचारः उच्चारोऽपरप्रकारो भवति । मद्यपा हि यदाभवन्ति वृथालापकरणात् । उदितमेवार्थमर्थान्तरेण दृढयति । इत्थं घटते । हि यस्मात्कारणात् , सुरायाः मदिरायाः, अनुभावः प्रभावोऽचिन्तनीयः चिन्तयितुमशक्यः । अथ च सुराः त्रिदशाः, तेषामनुभावो माहात्म्यं, देवानुभावश्च ।।९३॥
43. मूले तु-'मधु क्षौद्रे जले क्षीरे मधे पुऽपरसे मधुः । दैत्ये चैत्र वसन्ते च जीवाशा के मधु मे ॥' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org