________________
६४
ज्ञानप्रमोदगणिनिबद्धा तुल्ययोगितां निरूपयति
उपमेयं समीकर्तुमुपमानेन योज्यते ।
तुल्यैककालक्रियया यत्र सा तुल्ययोगिता ॥८॥ यत्र यस्यामलङ्कृतौ । तुल्येति-एकस्मिन्काले क्रिया एक कालकिया, तुल्या याऽसावेककालक्रिया तथा तया । तुल्येककाल क्रिययोपमेयं वर्ण्य वस्तु उपमानेन साकं समोकर्तुं समीकरणाय योज्यते, प्रवीणैः सा तुल्ययोगिता प्रोदिता ॥८८।। दृष्टान्तमभिधत्ते
तमसा लुप्यमानानां लोकेऽस्मिन्साधुवन्नाम् ।
प्रकाशनाय प्रभुता भानोस्तव च दृश्यते ॥८९॥ हे धर्मोपदेशक ! अस्मिन्लोके साधुवम॑नां वरेण्याध्धनां, प्रकाशनाय प्रकटीकरणाय, प्रभुता क्षमता, भानोरादित्यस्य, च पुनः, तव गुरोः मुनीशस्य दृश्यते। किविशिष्टानाम् ? साधुवर्भनाम् । तमसा. ध्वान्तेन, गुरुपक्षे अज्ञानेन लुप्यमानानामदृश्यमानानां, राजपथानां वाचंयममार्गाणां च दृश्यते, इतीह वर्तमानकालस्यैकक्रियासम्बधतोभयस्मिन्नपि खेर्गुरोश्च तुल्यक्रियात्वालोकनात् । तदवाचि माघतृतीयसर्गस्थ 'रम्या' इत्यादिपञ्चाशत्तमकाव्यवृत्तौ । “अत्र वधूनां वलभीनां च प्रकृतानामेव वैधयंताधम्य णौपम्यावगमात्केवलप्रकृतगोचरा तुल्ययोगिता, न लेषः । तथोक्तं ----
"प्रस्तुतानां तथाऽन्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता" ।।८९।। [शिशु ३.५३ टीका ] उत्प्रेक्षालङ्कारं विवृण्वन्नाचष्टे--
कल्पना काचिदौचित्याद्यत्रार्थस्य सतोऽन्यथा ।
योतितेवादिभिः शब्दैरुत्प्रेक्षा सा स्मृता, यथा ॥९०! यत्र यस्यामलक्रियायां, अन्यथा अन्यप्रकारेण, सतः विद्यमानार्थस्य वस्तुनः औचित्यात योग्यत्वात् , काचिदन्यथा कल्पना विधीयते, लब्धवर्गः सोत्प्रेक्षा स्मृता । कोदशी ? इवादिभिः शब्दैोतिता व्यक्तीकृता । आदिपदोपादानात्
" मन्ये शके ध्रुवं प्रायो नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्देरिवशब्दोऽपि तादृशः ॥१॥" [ का द. २.२३४] " इत्याचार्यदण्डयुक्तवान् । तथोक्तं--
यत्रान्यधर्मसम्बन्धादन्यत्वं नोपकोर्तितम् । 2
प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥२॥ इति । [प्र. रु. अ. प्र. ] लक्षणमन्यच्च
अभिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भावम् ।
आरोपितेन च तस्मिन्नतद्गुणादीति सोत्प्रेक्षा ॥३॥ [रु. का. ८३२] 'यथा' शब्दोऽने वक्ष्यमाणनिदर्शने ॥९॥ 41 "तुल्यक्रिया...तुल्ययोगिता-- इद पा. पुस्तके नास्ति । 42. मुले-'सम्बन्धादन्यत्वेनोपकीर्तितं ' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org