________________
ज्ञानप्रमोदिकावृत्तिः
देवपृथ्वीपतिः । तस्य सम्राजः, च पुनः, मृगपतेः कण्ठीरवस्यः पौरुषगुणात-पुरुषस्य भावः कर्म वा पौरुष, तस्य गणः धैर्यादिः, तस्मात्पराक्रमगुणात् । समानस्य भावः सामान्यम् । “अस्तु अस्तु" इत्यत्र " नित्यवीप्सयोः” इति सूत्रेण [पा अ. ८.१.४] ख्यातपदस्य द्वित्वे पराक्रमगुणेन समानता. भीक्ष्ण्यं प्रतिपादितं भवतु । भवविति साम्यं, किन्त्वेष विशेषः-एकतः एकस्मादुर्वीपतेः सकाशात्प्रतिभटा अरातियोद्धारः, रणमपहाय वनं विपिनं विशन्ति । अन्यमपरं, मृगपति अशङ्कमाना इति व्यतिरेकः । एतेन सिंहादपि राज्ञः शौर्यातिशयः प्रख्यापितः इति भावः । एतदर्थाधिकारश्च माघप्रथमस्थगतमित्यादि द्वितीयकाव्यस्य सर्वंकषायां वृत्तौ अभिहितो यथा हरेः नारदर्षिनिरीक्षणक्षणे इहोपमेयस्य धातुः सुनस्य मुनेः सवितृकृशानुभ्यामुपमानाभ्यां तदसम्भाविनाऽधःप्रसारणधमणातिरे. कत्रकथनाद्व्यतिरेकः। तदुक्त काव्य पकाशे
"उपमानाद्यः स्यादन्यस्य व्यतिरेकः स एव" [१०.१०५] 59 ' इति । अन्यच्च
•भेदसाधर्म्यप्राधान्यमुपमानोपमेययोः ।
अधिकाल्पत्वकथनाद् व्यतिरेकः स उच्यते ।।८५।। [प्र. रु. अ प्र.] सम्प्रत्यपह्नुतिं लक्षयति
नैतदेतदिदं ह्येतदित्यपहनुतिपूर्विकाम् ।
उच्यते यत्र सादृश्यादपहनुतिरियं, यथा ॥८६॥ यत्र यस्यामलङ्क्रियायां, सादृश्यान्समानत्वात्, इति । अपह्नवपूर्वक-अपह्नवमपह्नवः पूर्वी यस्मिन् तदपनवपूर्वकमिति वर्तमानवस्तुनोऽपलापपूर्वकमुच्यते निगद्यते । इति इति किम् ? एतत् साक्षाद् दृश्यं एतन्न, हि निश्चितं, इदममदपि एतत् । सा ह्ययमपहूनुतिः । अपनूयतेऽनयाऽपहूनुति:, अपडूनवं वा अपडूनुतिरलङ्कृतिर्भवेत् । यथा इति अग्रेऽभिधीयमाननिदर्शने ॥८६।।
नैतन्निशायां शितसूच्यभेद्यमन्धीकृतालोकनमन्धकारम् ।
निशागमप्रस्थितपञ्चबाणसेनासमुत्थापित एष रेणुः ॥८७॥ निशायां क्षणदायामेतदन्धकारं न । किंलक्षणम् ? शिता तीक्ष्णा चासौ सूची च तथा, तया । अभेद्यं भेनुमनहूँ, शितसूच्यभेद्यम् । एतेन सान्द्रतरं तम इति सूचितम् । पुनः कीदृशम् ? अनन्धानि अन्धत्वेन कृनानि अन्धोकनानि, आलोकनानि अन्बकानि येन तदन्धीकृतालोकनम् । एतादृशं तमिस्रं न । किन्वेप रेणुवर्तते । किंभूतः ? निशागमे शर्वरीसमागमने, निखिलभुवनजयार्थ' प्रस्थितो जिगमिषितः, ग चासौ पञ्चवाणी मन्मथश्च, सः तथाः तस्य सेना चमः, तया समुत्थापितः । तथात्र प्रस्तुतशङ्गारशतकान्तःस्थं वृत्तमेतत् --
कपोले पत्राली करतलनिरोवेन मृदिता निपीतो निःश्वासैरयममृतहद्योऽधररसः ।
मृदुः कण्ठे लग्नस्तरलयान बाप्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधेन तु वयम् ॥८७।। ___ [अ श. ८१] . 39 मुले - 'उपमानाचदन्यस्य व्यतिरेकः स एव सः' इति । 40 मुले-'प्रधानसाधर्म्य इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org