________________
६३
दृष्टान्तलक्षणं प्रतिपिपादयिषुराह -
अन्वयख्यापनं यत्र क्रियया स्वतदर्थयोः ।
तं दृष्टान्तमिति प्राहुरलङ्कारं मनीषिणः ॥ ८२॥
मनस ईषिणः मनीषिणः प्रेक्षावन्तः प्रकृतस्य उपपादकः उपोद्घातो दृष्टान्तः, तं दृष्टान्तमलक्कारं प्रचक्षते । यस्मिन्नलङ्कारे क्रियया करणेन स्वतदर्थयोरुपमानोपमेययोः दृष्टान्तदाष्टन्तिकयोः अत्रैषम्येणान्वयख्यापन, शब्दानां परस्परमर्थानुगमनं अन्वयो वा इत्यभिहितान्त्रयवादिनां मते सामान्यरूपाणां पदानामाकाङ्क्षायोग्यतासन्निधिवशात्परस्परं संसर्गे पदार्थव्यतिरिक्तो वाक्यार्थः । प्रकाशत इति तस्य ख्यापनमनुगताकारा प्रवृत्तिः, सम्बन्धो भवेत् ॥८२॥
उदाहरति
पतितानां संसर्ग त्यजन्ति दूरेण निर्मला गुणिनः । इति कथयन् जरतीनां हारः परिहरति कुचयुगलम् ||८३||
हारः इति कथयन् जरतीनां वृद्धतरप्रमदानां कुचयुगलमुरोजयामलं परिहरति । इति इति किम् ? निर्मलाः विगतमलाः उज्ज्वलाः, गुणिनः गुणवन्तः, पतितानां सदध्यच्युतानां संसृज्यत इति संसर्गः, 'भाव' इति व्या. ५.३.१८] घञि । हारोऽपि गुणीव वरकयुग् विशदः च जरतीनां कुचौ स्रस्तौ अतस्तेन तौ इत्याशयः । इहादिमांहिद्वितये प्रकृष्टोऽर्थः, तस्य हारो निदर्शनम् । तथोक्तं माघसत्कचतुर्दशसर्गस्थत्रीतेत्याद्यष्टम काव्य सर्वं कषावृत्तौ । शि. १४.८ टीका ] अत्र हरिमरीचिमा निर्वाक्यभेदात् बिम्बप्रतिबिम्बतया संनिहितत्वोदितया सामान्यधर्मतया निर्देशो दृष्टान्तालङ्कारः ।
"
यत्र बिम्बप्रतिबिम्बतयोच्यते -
“समानधर्मो वाक्यैकैः स दृष्टान्तो निगद्यते || १|| ” [प्र.रु. अप्र.] लक्षणमदः ॥ ८३ ॥
अधुना व्यतिरेकं लक्षयति -
ज्ञानप्रमोदगणि निबद्धा
केनचिद्यत्र धर्मेण द्वयोः संसिद्धिसाम्ययोः ।
भवत्येrराधिक्यं व्यतिरेकः स उच्यते ॥८४॥
यत्र यस्मिग्नलङ्कारे, द्वयोरुभयोर्वस्तुनोः पदार्थयोरेकेन केनचित् शूरत्वादिना धर्मेण सम्पन्नसदृक्षयोः मध्ये एकतरस्य कस्याप्याधिक्यं भवति, विपश्चिद्भिः सः व्यतिरेकालङ्कारो भण्यते || ८४ ॥
साम्प्रतमुदयिते
अस्त्वस्तु पौरुषगुणाज्जयसिंहदेव पृथ्वीपतेर्मृगपतेश्च समानभावः । प्रतिभटाः समरं विहाय सद्यो विशन्ति वनमन्यमशङ्कमानाः || ८५|| जयसिंहदेव पृथ्वीपतेः-जयेनोपलक्षितः सिंहः शौर्यातिशयाज्जयसिंहः । ततः प्रयुक्तः पूज्यमानवाचको 'देव' शब्द: कुमारपालदेव' - वत् । सकलराजभिरभ्यर्हितो जयसिंहदेवश्चासौ पृथ्वीपतिश्च जयसिंह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org