________________
ज्ञानप्रमोदिकावृत्तिः संशयलक्षणं व्यनक्ति
इदमेतदिदं वेति साम्याबुद्धेहि संशयः ।
हेतुभिनिश्चयः सोऽपि निश्चयान्तः स्मृतो, यथा ॥७९॥ साम्यात् साक्ष्यादिति, बुद्रेर्धिषणायाः, हि निश्चितम् । संशयनं संशयः, समन्ततः शेते आत्माऽ. स्मिन्निति वा संशयाभिधानोऽलङ्कारो धीधनैः स्मृतः । इति इति किम् ? इदमेतद्वस्तु वा । तथोक्तम् वस्तुनियत्रैकस्मिन्ननेकविषयवस्तु भवति सन्देहः । प्रतिपत्तु सादृश्यादनिश्चयः संशयः स इति ॥१॥ सोऽपि संशय एव हेतुभिः कारणैः संशय्यैव निर्णयार्थ प्रवर्तनान्निश्चयान्तः सन् निश्चयनामालकारो भवेत् । 'यथा' शब्देन पुरा वक्ष्यमाणोदाहरणं दर्यते ॥७९॥
कि केशपाशः प्रतिपक्षलक्ष्म्याः किं वा प्रतापानलधूम एषः ।
दृष्ट्वा भवत्पाणिगतं कृयाणमेवं कवीनां मतयः स्फुरन्ति ॥८॥ एतेन उर्वीपतिना अरातोनां लक्ष्मीः केशेषु गृहीत्वा बलादाकृष्टा विद्यते । वृत्तविधाता तच्छङ्कते । हे नरनायक, कवीनां विदुषां, मतयो-मन्यते आभिर्मतयोऽर्थनिश्चयाः, एवं स्फुरन्ति । किं कृत्वा ? भवत्पाणिगतं त्वत्करप्राप्त, असिं दृष्ट्वा । एवमिति किम् ? प्रतिकूलः पक्षः प्रतिपक्षः, तस्य
जियश्रीः तस्याः प्रतिपक्षलक्ष्म्याः शत्ररमायाः । किमिति विमर्शने । केशानां समहः केशपाशो वा । पक्षान्तरे यद्वा किमिति हेतुप्रश्नाक्षेपे । एषः प्रतापानलधूमः - प्रतपनं प्रतापः, अनित्यनेन लोकोऽनलः, प्रताप एवानलो वाहनः, प्रतापोऽनल इति वा । धुनाति धूमः, तस्य धूमः प्रतापानलधूमः । 'तात्स्थ्यात्तव्यपदेश' इति न्यायेन विचक्षणैरित्थमुन्नीयत इति भावः ॥८॥ इदानीं निश्चयान्तोदाहरणमभिधत्तेइन्द्रः स एष यदि किं न सहस्रमणां
लक्ष्मीपतिर्यदि कथं न चतुर्भुजोऽसौ । आः स्यन्दनथ्वजधृतोद्धरताम्रचूडः
श्रीकर्णदेवनृपसू नुरयं रणाग्रे ॥८१॥ यदि स एषः । इदि परमैश्वर्य इन्दति इति इन्द्रः तस्य; 'इन्द्र' इति संज्ञापदस्य यदर्थपरमैश्वर्यलक्षणभाक सूत्रमा ता?] भवेत्, तदा अक्षणां लोचनानां, सहस्रं दशशतात्मकं, किमिति हेतुप्रश्ने । किं न? चक्षुषां सहस्राभावत्वेन शकः न इत्यर्थः । यदि लक्ष्मीपतिः श्रीपतिः भवेत् , तर्हि चतुर्भुजः कथं न ? चतुर्भुजाभावत्वेन केशवो न स्यादित्यर्थः । स्मृतौ आः । आः सविसर्गः कोपपीडार्थवाचकोऽपोह यथोचितं व्याख्येय. । ततश्च आः ज्ञातम् । 'इदं' शब्दोऽव्यवहितार्थनिर्देशकः । ततः सोऽयं रणाग्रे संग्रामप्रकणे, श्रीकर्णदेवनृपसूनुः श्रोजयसिंहदेवोऽस्ति । तदन्त.कोपलक्षित विशेषणं ब्रूते । कथंभूतः ? स्यन्दनस्य रथस्य, ध्वजे केतो, धृतः, उद्गगता धूरस्य उदग्रः, ताम्रचूडः दीर्धनादो येन सः स्यन्दनध्वजधृतोद्धरताम्रचूडः । इह एभिः कारणैश्वरणायुधकेतनत्वेन जयसिंहदेवे निश्चयान्तः संशयोऽवसितः ॥८१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org