________________
ज्ञानप्रमोदगणिनिबद्धा इन्द्रेण किं स यदि कर्णनरेन्द्रसू नुः ऐरावणेन किमहो यदि तद्विपेन्द्रः । दम्भोलिनाऽप्यलमलं यदि तत्प्रतापः स्वर्गोऽप्ययं ननु मुधा यदि तत्पुरी सा ॥७६॥ यदि सः किरति शवनिति कर्णः, स चासौ नरेन्द्रश्च, तथा । श्रिया त्रिवर्गसम्पत्त्या युक्तः कर्णनरेन्द्रः श्रीकणेनरेन्द्रः । तस्य श्रीकर्णनरेन्द्रस्य सूनुः पुत्रः । श्रीकर्णनरेन्द्रसूनुः श्रीजयदेवः पृथ्वीशको विद्यते तहि इन्द्रेण मधवता किमिति क्षेपे इन्द्रस्य प्रतिषेधः । यदि तस्य श्रीकर्णनरेन्द्रसूनोपेिन्द्रः तद्विपेन्द्रः श्रीकलाप्रशस्ताभिधानो वर्तते, लदेरावतेन महाम्बुदगोचरगजेन किमिति ऐरावतस्य प्रतिषेधः । अहो इति सम्बोधने विस्मये च । यदि तत्प्रतापः-तस्य प्रतापः स्फूर्जप्रभावः तत्प्रतापोऽस्ति, तर्हि दम्भोलिनादम्भादाटोपाल्लीयते . दम्भोलिः, पृषोदरादिः, तेन कुलिशेनाऽप्यलमत्यर्थमलं सृतमिति कुलिशस्य प्रतिषेधः । याद सा प्रसिद्धा । पुर अग्रगमने, पुरति पुरी, नाम्युपधारके पुरं, स्त्रियां पुरी । तथोचे नाम्युपान्त्य...किः [हे. व्या. ५.१५४] प्रत्ययान्तोऽपि । पुरिः प्रकृत्यन्तरमस्तीति सर्वधरेण इकारान्ता. दीपितत्सिद्धौ । तस्य पुरी तत्पुरी, अणहिल्लपत्तनाह्वया नगरी विद्यते । तदा ननु निश्चितं, स्वर्गोऽपि सुरलोकोऽपि, मुधा वृथेति स्वर्गस्य प्रतिषेधः । एतेन इहोक्त्या साक्षाद्वचनेनेन्द्रादीनां प्रतिषेधो व्यधायि इति प्रज्ञापितम् ।।७६॥
यस्यास्ति नरकक्रोडनिवासे रसिकं मनः ।
सोऽस्तु हिंसानृतस्तेयतत्परः सुतरां जनः ॥७७॥ यस्य नरस्य, मन्यते जानात्यर्थान्मनः । ‘असित्यस्' सर्वार्थग्रहणम् । नरक एव क्रोडः उत्सङ्गः, तत्र निवसनं निवासः, तस्मिन्नरकक्रोडनिवासे रसिकं तन्निवासरसोपेतमस्ति । स: जनः । हिंसनं जीवविध्वंसनं हिंसा । इयति सतां हृदयं; ऋतं सत्यं, न तथाऽनृतं वितथं; स्तेनयति स्तेनः, तस्य भावः स्तेयम् । “स्तेनान्नलुक् चेति" [हे. व्या. ७.१.६४] यः स्तैन्यं । ततो द्वन्द्वे, हिंसा चानृतं च स्तेयं च तथा तानि, तेषु तत्परः परायणः हिंसानृतस्तेयतत्परः, सुतरां अतीव अस्तु । अनेन हिंसाप्रभृतिकं न विधेयमिति प्रतीतिः प्रख्यापिता ॥७७।।
इच्छन्ति जे ण कित्ति कुणन्ति करुणाकणं पि जे नेव्य ।
ते धणजक्ख व्वनरा दिन्ति धणं मरणसमए वि ॥७॥ ये नराः कीर्तिमभिख्यां न इच्छन्ति न वाञ्छन्ति; ये च कणो लेशः, तन्मात्रामपि करुणां कृपां न कुर्वन्ति, ते मनुजाः धनदयक्षवत् निधनावसरेऽपि धनं वित्तं किं ददति ? अपि तु न ददति इत्यत्र आत् अभ्यस्तात् इति अनेन कः स्यात् ? उभयस्मिन्नर्थसामर्थ्यात काकुव्याख्यानेन कृत्वा निषेधः प्रतीयते । अदयया दयानिषेधः । अमरूशतकटीकाकृताऽत्र प्रोक्तोऽधिकारः
" सीत्कारः कामिनीनां दयितस्पर्शसुखातिशयेन हृदयोल्लसच्चमत्कारपूर्वकः श्वसितात्मा मन्मथोदीपनोन्मुखस्य चेष्टाविशेषः ।" [अ. श. ३७] आक्षेपोऽलङ्कारः । यथा--
कुतः कुवलयं कर्णं करोषि कलभाषिणि । किमणाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ।। इति [का. द. २.१२३ ] प्रभृतिकोऽयम् ।।७८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org