________________
ज्ञानप्रमोदिकावृत्तिः साम्प्रतं भ्रान्तिमतो लक्षणं प्रतिपादयति
वस्तुन्यन्यन कुत्रापि तत्तुल्यस्यान्यवस्तुनः ।
निश्चयो यत्र जायेत भ्रान्तिमान्स स्मृतो, यथा ॥७३॥ यत्र यस्मिन्नलङ्कारे अन्यस्मिन्कस्मिन्नपि वस्तुनि-वसन्त्यत्र वस्तु । वसस्तुनिति तुन् प्रत्यये वस्तु । तस्मिन्पदार्थ तत्सनानस्य परवस्तुनो निश्चयो निर्णयः प्रादुर्भवेत, संख्यावद्भिः स भ्रान्तिमान स्मृतः ।।७३॥ एतस्य निदर्शनं निगदति--
हेमकमलंत्ति वयणे नयणे नीलुप्पलं त्ति पसयच्छि ।
कुसुमं ति तुज्झ हसिए निवडइ भमराण रिन्छोली ॥७४॥ हे प्रसृताक्षि, प्रसृते विस्ती, अक्षिणी यस्याः सा, तथा तस्य आमन्त्रणे । तरलायितेक्षणे तव वदने वक्त्रे । हेमकमलं काञ्चननलिनं इति विधाय; नेत्रे नीलोत्पल इन्दीवरमिति विधाय । च पुनः, तव हांसते हसने, कुसुमं प्रसूनं, विधाय, भ्रमराणां रिंछोलोति [दे. ना. ७.५] पङ्क्तिः निपतति । अमरुशतकटीकोक्त कि चदिहोच्यते
" लज्जया व्यभिचारिभावेन पुष्टः सम्भोगशृङ्गारः ।" पद्मरागशकले दाडिमबीज भ्रान्तिमान लङ्कारः । यदुक्तम्---
वस्तुविशेष पश्यन् न[ना]वगच्छेदन्यमेव तत्सदृशम् । निःसन्देह कस्मिन् प्रत्तिपत्ता भ्रान्तिमान् स इति ।।१।। रु. का. ८.८७] यथा पालयांत त्वाय वसुधां विविधाध्वरधूमशालिनीः ककुभः ।
पश्यन्तो दूयन्ते धनसमयाशङ्कया हंसाः ॥१॥” [रु. का. ८.८८] ग्रन्थान्तरोक्त लक्षणं चेदम् -
कविसम्मतसादृश्याद्विधेये पिहितात्मनि ।
आरोप्यमाणानुभवा यत्र स भ्रान्तिमान मतः ॥१॥ चि. मी.] अथाक्षेपलक्षणं वक्त --
उक्तियंत्र प्रतीतिर्वा प्रतिषेधाय जायते ।
आवक्षते तमाक्षेपमलङ्कार बुधाः, यथा ॥७५॥ यत्र यस्मिन्नलकारे उक्तः शब्देन, वा अथवा, प्रती तः अर्थसामर्थेन प्रतिषेवस्य प्रादुर्भवेत्, बुधाः अमलधियः तमाक्ष आक्षिप्यतेऽनेनाऽस्मादास्मन्निात वा आक्षेपः, तमाक्षेपनामालङ्कार ब्रुवते । यथेत्यनेन दर्शयष्यमाणानदर्शनात्रकं व्यज्यते ॥५॥
38
38 मूले - विषये' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org