________________
५८
ज्ञानप्रमोदगणिनिबद्धा चन्द्रस्य इह कश्चन धर्मो न निरूपितः इति खण्डमेतच्च बाह्यवृत्तिमाश्रित्योक्तम् । अन्यथा चन्द्रमाः शीत एव, अब्जं सुरभ्येव । अब्जत्वादिः कारणतावच्छेदको नियामको धर्मः । सुरभित्वविशेषत्वादिः कार्यतावच्छेदको धर्मोऽस्त्येवेत्यवसातव्यम् । 'नववर्णिनीचन्द्रमस' इति समामविधानात्समस्तम् ।।६९।।
अथासमस्तखण्डरूपकमभिधत्ते
ज्योत्स्नया धवलीकुर्वन्नुर्वी सकुलपर्वताम् ।
निशाविलासकमलमुदेति स्म निशाकरः ॥७॥ निशाकरश्चन्द्र उदेति स्म । किंलक्षणः ? निशायाः विभावर्याः, विलासार्थ कमलमिव कमलम् । किंकुर्वन् ? ज्योतिरस्त्यस्यां ज्योत्स्ना, "मत्वर्थीये नकारे उपलोपे च"। तया कौमुद्या, कुलगिरिसंयुक्तामुर्वी क्षोणी, धवलीकुर्वन् । इह कमलस्य गुणानुपवर्णनात् खण्डं समासाभावादसमस्तम । यदुक्त
यत्र गुणानां साम्ये सत्युपमानोपमेययोरभिदा ।
अविवक्षितसामान्या कल्प्यत इति रूपकं ज्ञेयम् ॥१॥ [ रु. का. ८-३८ ] यथा
लावण्यसिन्धुपरिपूरितदिङ्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायिताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ।। [ध्व. २ वृत्ति ] इत्यत्र मुख चन्द्र एवेति रूपकम् ॥७॥ अधुना प्रतिवस्तूपमाया लक्षणमाह -
अनुपात्ताविवादीनां वस्तुनः प्रतिवस्तुना ।
यत्र प्रतीयते साम्यं प्रतिवस्तूपमा तु सा ॥७१॥ यत्र यस्यामलदि कयायां, वस्तुनः पदार्थस्य, प्रतिवस्तुना प्रतिपदार्थेन सार्धं साम्यं समानत्वं, प्रतीय तेऽव गीयते । तुः अवधारणे भित्रक्रमे च । सा प्रतिवस्तूपमा स्यात् । कस्यां सत्याम् ? इवादीनाम् । इववदितिप्रमुखाव्ययप्रत्ययसहक्षार्थसमासप्रभृतिकानामनुत्पत्तौ सत्यां अनादाने सति ।।१।। अस्याः निदर्शनम्
बहुवीरेऽप्यसावेको यदुवंशेऽद्भुतोऽभवत् ।
कि केतक्याः दलानि स्युः सुरभीण्याखिलान्यपि ॥७२॥ एतदर्थस्तु प्राग्वदवसातव्यः। अयमधिकारो माघाद्यसर्गान्तःस्थोपप्लुतमित्याद्यष्टात्रिंशत्तमवृत्तसर्वकषावृत्तौ प्रणीतः । " अन वाक्यद्वये समानधर्मस्यैकस्येशिषे क्षमेतेति शब्द येन वस्तुप्रतिवस्तुभावेन निर्देशात्, तत्रापि तव्यतिरेकमुखत्वात् वैधम्र्येण प्रतिवस्तूपमालङ्कारः । उक्त चसर्वस्वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथग निर्देशे प्रतिवस्तूपमा" [शि. टीका. १.३८] ।।७२।। 37 मूले- 'लावण्यकान्तिपरिपूरित ...' इति । आनन्दवर्धनरचितः लोक एषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org