________________
ज्ञानप्रमोदिकावृत्तिः तत्र तावदखण्डं समस्तं प्रकाशयति
कीर्णान्धकारालकराजमाना निबद्धतारास्थिमणिः कुतोऽपि ।
निशापिशाची व्यचरद्दधाना महान्त्युलूकध्वनिफेत्कृतानि ॥६७॥ निशापिशाची - निश्यति तनूकरोत चेष्टाः निशा, निशन्ति समाहितमनस्का भवन्त्यस्यामिति वा । पिशितमश्नातीति पिशिताशः लोकोपचारात् । पृषोदरादित्वेन पिशितस्य पिशाभाव । आशस्य च भावः पिशाचः, स्त्रियां पिशाची, निशापिशाची । इव उपमितं व्याघ्राभिरिति समासः । निशैव पिशाची. त्येके । निशापिशाची शरीराक्षसी । कुतः ? कस्मादपि स्थलाठ्यचरपरिभ्राम्यति स्म । किंलक्षणा ? कीर्णाः विक्षिप्ताः ये अन्धं हतदृष्टिशक्तिकं कुर्वन्ति इति कर्मणि अण् अन्धकाराः । ते एव अलकाः कचाः, तैर्विभ्राजमानाः निबद्धाः, तारा एबास्थिमणयः यया सा । किंकुर्वाणा ? महान्ति महत्तराणि, उलूकाः घूकाः, तेषां ध्वनयः एव फेत्कृतानि फेत्कारापरपर्यायाणि तानि दधाना । इह निशयोपमेयेन माकं पिशाच्या उपमानस्य समासविधानात् समस्तरूपकम् । कृत्स्नपिशाचीधर्माख्यानात् सकल. विशेषणानामपि समानत्वात् चाखण्डम् ॥६७॥ असमस्तमुपमेयेन सत्राऽखण्डं कृत्स्नं रूपकं व्यजयति
संसार एषः कूपः सलिलानि विपत्तिजन्मदुःखानि ।
इह धर्म एव रज्जुस्तस्मादुद्धरति निर्मज्ञान् ॥६८॥ आसन्नतरवर्तित्वादेष संसारः कूपः । कु शब्दे, कुवन्ति मण्डूकाः अस्मिन्निति । 'कुयुभ्यां चेत्यौ णादिकः १: प्रत्ययः, स च किद्धातोः दीर्घत्वं च । भवः प्रहिर्वतते, इह संसृतिप्रहौ । विपदनं विपत्तिः आप जननं जन्मतया । दुःखयन्तीति दुःखानि, तान्येव सलिलानि विद्यन्ते । धर्म एवेत्यवधारणे तत्साधाद्रज्जुरिव रज्जुः । सृज्यते इति रज्जु , "स्यन्दिसृजिभ्याप्रित्युप्रत्यये" रज्ज्वादेशे च [हे उ. ७१७] । तस्मात्संसारकूपान्निर्मग्नान् जन्तूनुद्धरति निस्तारयति । यथा कश्चित्प्रमादशादन्धुपतितः केनचिद्विवेकिना रज्ज्वा उद्द्यिते, तथात्रापि संसारेऽखिलकूपधर्मस्वारोपणादखण्डं समाप्सराहित्यादसमस्तं रूपकम् । धर्मः पुंसि रज्जुः स्त्रियाम् ॥६८।। इदानी समस्तं खण्डं असमग्र रूपकं प्ररूपयति
अधरं मुखेन नेयनेन रुचिं सुरभित्वमब्जमिव नासिकया ।
नववणिनीवदनचन्द्रमसः तरुणा रसेन युगपन्निपपुः ॥६९॥5 तरुणाः युवान पुमांसः । न वा चासौ वर्णिनी च नववर्णिनी , वदनं चन्द्रपाः इव, वदनमेव चन्द्रमाः वा इति समासः; तस्याः बदनचन्द्रमाः नववणिनीवदनचन्द्रमाः, तस्य । नूतनप्रमदाननकुमुदवान्धवस्य अधरं ओष्ठं, मुखेन वक्त्रेण कृत्वा । नयनेन नेत्रेण, रोचते रुचिः । तां कान्ति अम्बकेन कृत्रा, नाकिया घ्राणेन च सुरभित्वम् । रसेनात्यन्तादरेण, युगपत् समकालं, निपपुः भूयः पिबन्ति स्म । अत्यादरेण विलोकनादिकं पानक मुच्यते । सुरभित्वं किमिव ? अब्जमिव वारिसहमिव ।
36. ने. नि. १०.३५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org