________________
ज्ञानप्रमौदगणिनिया - इदानी रूपके लिङ्गभेदो भण्यते
हस्ताग्रविन्यस्तकपोलदेशा मिथो मिलत्कङ्कणकुण्डलश्रीः ।
सिषेच नेत्रस्रवदश्रुवारैः दो कन्दलीं काचिदवश्यनाथा ॥६४॥ कारित् नायिका दो कन्दली दम्यति दो प्रवेष्टः, कन्दैः सौत्रादल नदादित्वादीपि कन्दली, म एव कन्दलीदो. कन्दली, ता बाहुलतां नेत्राभ्यां स्रवन्ति गलन्ति यान्यश्रृंणि नेत्राम्बूनि । तथा तेषा वाराः निचयाः, तैः नेत्रस्रवदश्रुवारैः सिषेच । किलक्षणा ? न विद्यते वश्यः आयत्तः, नाथो रमणो यस्याः सा अवश्यनाथा रुष्टधवा । अनधोनभोत्कृकेत्यर्थः । पुनः कीदृशी ? हाताने विन्यस्त; अर्पितः, कपोलदेशो गल्लस्थलभित्तिभागो यया सा। पुनः किलक्षणा ? कङ्कते हस्ते कङ्कणं हस्तसूत्रं, कुण्डते दहत्यलक्ष्मी कुण्डलं कर्णवेष्टकं. ततो द्वन्द्वे कङ्कणं च कुण्डलं च कङ्कणकुण्डले, मियोऽन्योन्यं मिलन्तो मिश्री. भवन्ती, तयोः कङ्कणकुण्डलयोः श्री. शोभा यस्यां सा तथोक्ता । यतः एव हस्तापविन्यस्तकपोलदेशा अतः एव मिथोमिलस्कङ्कग कुण्डलीः इति रहस्यम् । तथाऽत्र दोः पुंसि, कन्दली स्त्रियामिति पुंस्रोलिङ्गयोः भेदस्य समासेन तिरोभूतत्वान्न दोषः । उपमेवान्तर्हितभेदरूपकमिष्यते ॥६४॥ अधुना प्रतिवस्तूपमायां लिङ्गवचनयोः भेदं निरूपयसि
बहुवीरेऽप्यसावेको यदुवंशेऽद्भुतोऽभवत् ।
कि केतक्यां दलानि स्युः सुरभीण्यखिलान्यपि ॥६५॥ असावेकः स्वसमानजातीयद्वितीयापेतः श्रीमदरिष्टनेमिः । यदुवंशे- वम्यते जन्यतेऽनेन वंशः,
शोऽन्वयः, तस्मिन्नद्भुतः सवोत्कृष्टः अजनिष्ठ । किलक्षणे वंशे? बहवो वीराः सुभटाः यस्मिन् स तथा, तस्मिन् बहुवीरे ऽपि । उदाहरणं- केतकिवने केतकः, स्त्रियां केतकी । यद्वाचस्पतिः 'केतकस्तु द्वयो' रित्युक्तान्, तस्यां केतक्यां निखिलानि समम्तान्यपि, दलन्ति विकसन्ति इति 'एचाद्यच्', दलानि पर्णानि । कि, सुष्ठु रभन्त इति सुरभीणि सुपरिमलानि भवेयुः१ अपि तु स्तोकान्येव कानिचित् सुरभीणि जायन्ते । वंशस्येह केतक्या उपमानम् । वीराणां चान्यदलोपमानम् । सुरभिपत्रोपमानम् । वंशः पुल्लिङ्गे, केतको स्रोलिड्-गे; वीराः पुंसि, दलानि क्लोबे । एको नेमिः बहुतराणि दलानि । इत्थं प्रतिवस्तूपमायां लिङ्गवचनभेदेऽपि दूषणं न भवति ॥६५॥
रूपकभेदान् व्याचष्टे
रूपकं या साधादर्थयोरभिदा भवेत् ।
समस्तं वाऽसमस्तं वा खण्डं वाऽखण्डमेव च ॥६६॥ यत्र यस्मिन्नलड्-कारे, साधर्म्यात् समानधर्मत्वात् , अर्थयोरुपमानोपमेययोः वस्तुनोरभेदादैक्यं स्यात्सुधीभिस्तद्रूपकमुच्यते । तच्चतुर्विध- समस्तं समासयुक्तं द्वैधं खण्डमखण्डं च; असमस्तं समासापेतमपि द्विविध, खण्ड निरवयवं, अखण्डं समस्तत्रस्तुविषय सावयवं, इत्यैदम्पर्यम ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org