________________
ज्ञानप्रमोदिकात्तिः
प्रौढा अतीवोच्चतरा, इर्यति इत्यर्मयः । ऊर्मिभूमिरवमय इति मिः । 'उरादेश्च धातो मिनोवों:'5. इति, दीर्धे ऊर्मयः कल्लोलाः यस्मिन् सः प्रौढोर्मिः । कः इव ? शाङ्गीव । शृङ्गस्य विकारः शाङ्गधनुः, तदस्यासीति शागी हरिः । स इव शङखभृत । इहार्णवस्य जनार्दनस्य उपमानं, फेनपिण्डस्य शङ्खोपमानं, ऊर्मीणां विशेषणं न विद्यते, इत्युपमायाः विशेषणहीनता, एवमपि न विधेयम् । करी मातुङ्गः विराजते । कीदृक् ? प्रच्योतन् क्षरन् मदोदानं यस्य सः च्योतन्मद । क इव ? वारिद इव । यथा वारिदो मेघः, वर्षन् शोभते । किविशिष्टः ? विद्युत् विद्यतेऽस्य विद्युन्वान् । अत्र " तसौ मत्वर्थः" [हे. उ ५८० ] इति संज्ञायां एकसंज्ञाधिकारेणापदत्वात् न जश्त्वम् । विद्युत्वानिति विशेषणाधिक्यं, अतः अधिकोपमादोषः ॥६॥
अथ गुणातिदेशाः प्रदर्यन्ते
मुखं चन्द्रमिवालोक्य देवाडादकरं तव ।
कुमुदन्ति मुदाक्षीणि क्षीणमिथ्यात्वसम्पदाम् ॥६२॥ हे देव, तव मुखं आस्यं चन्द्र मिव निभाल्य; मिथ्यति मिथ्या, " वृमिथी"तियादिः [हे उ. ६०१] किदाप्रत्ययः, तद्भावो मिथ्यात्वं, तस्य तदेव वा । सम्पन्मिथ्यान्वं, संपदि वा इति वा । क्षीणा मिथ्यात्वसंपत् येषां ते, तथा तेषां क्षीणमिथ्यात्वसम्पदाम् । सम्यक्शां पुरुषाणामन्बकानि, कुमुदानीवाचरन्ति कुमुदन्तिः चन्द्रवदाह्लादकरः प्रमदः, तत्करं प्रीत्युत्पादकम् । मुख क्लीबे, चन्द्रः पुंसि । वाग्भटालङ्कृतिकृतः मते दूषणमेतत् । उभयलिङ्ग मुखं क्लीबद्वारा वर्णितमिति लिङ्गभेदेऽप्युपमा भवेत् ।।६२।। उत्प्रेक्षान्तराले समासोपमिती लिङ्गभेदं व्यजयति
निजजीवितेशकराग्रकृतक्षतपतयः शुशुभिरे सुरते ।
कुपितस्मरप्रहितबाणगणत्रणजर्जरा इव सरोज दृशः ॥६३॥ सरोजानि नलिनानि, तानीव दृशः दृष्टयः यासां ताः । तथाऽत्र पाठादर्थस्य बलीयस्त्वादिव शब्दस्य व्यवहितान्वयोऽवसेयः । सरोजशब्दः "क्लीबे" [हे. व्या. २.४.९७ दृस्त्रिया मित्यनयोः क्लीवनी. लिङ्गयोः भेदस्य समासेनान्तर्हितत्वान्न दुष्टता । सरोजदृश: पद्माक्ष्यः प्रमदाः शुशुभिरे । किंलक्षणाः? निजाः स्वकीयाः, ये जीवितेशाः प्राणनाथाः, तेषां करजाग्राणि नरवरकोटिरूपाणि, तैः कृत्वा विहिताः क्षतपङ्क्तयः व्रणावलयः यासां ताः निजजीवितेशकरजाप्रकृतपङ्क्तयः । कुत्र सति ? सुरते सम्भोगावसरे सति । तत्तद्रुट्कारणात्कुपितः कोपंगतः, स चासौ स्मरः मन्मथश्च तथा, तेन प्रहितः मुक्तः यः बाणगणः शरनिकरः, तस्य व्रगेः अतः जर्जरा इव अकिञ्चिद्वपुष इव । समरसुरतयोः समरस इति भावः ॥६३।।
34 पा. अ. 'उमोर्णयोर्वा (४.३.१५८) 35. ने. नि., १०.२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org