________________
५४
ज्ञानप्रमोदगणिनिबद्धा
उपमायां दोषानभिधित्सुराह
विभिन्नलिङ्गवचनां नातिहीनाधिकां च ताम् ।
निवघ्नन्ति बुधाः क्वापि लिङ्गभेदं तु मेनिरे ॥५८॥ बुधाः विचक्षगाः, तां उसमामुपमेयात्, लियते स्त्रियामादादिभिः व्याज्यते स्त्र्यादयो वा । लिड्ग्यन्ते व्यज्यन्तेऽनेनेति लिङ्गम्, स्त्रीपुंनपुंसकवचनमेकद्विबहुवचनरूपम । ततो लिङ्ग च वचनं च लिङ्गवचने । विभिन्ने लिङ्गवचने यस्याः सा, तथा ताम् । पृथलिङ्गवचनान् न निबध्नन्ति न रच यन्ति । च पुनः, अतिहीनां अतीवाधिकां च न प्रथ्नन्ति । तु पुनः, विपश्चितः क्वापि स्थाने लिङ्गभेदं मन्वते स्म ॥५८॥ पद्यत्रिकेण दोषदृष्टान्तानाह
हिममिव कीर्तिवला चन्द्रकलेवातिनिर्मला वाचः ।
ध्वांक्षस्येव च दाक्ष्यं नभ इव वक्षश्च ते विपुलम् ।।५९॥ हे काश्यपीपाल, ते तव कीर्तिः । हिममिव हिनोति वर्धते जलमनेन हिमं तुहिनं, तदिव धवला, शुभ्रा विद्यते कीर्तिः । स्त्रीलिङ्गे हिम क्लीबे । लिङ्गस्येह पार्थक्यम् । हे नृपति ते शक्र, तव वाचो गिरः, चन्द्रकलेव अतीवोज्ज्वलाः सन्ति । वाचःनिशानाथकलेत्यनयोः बहुवचनैकवचनयोः वैषम्यम् । विलोक्यते हि दृष्टान्तदाष्र्टान्तिकयोरवैषम्यमिति भावः । हे धराधीश्वर, च पुनः, तव दाक्ष्य-दक्ष्यते दक्षः, तस्य भावो दाक्ष्यं नैपुण्यम् । ध्वांक्षति कांक्षति ध्वाक्षः तस्य, ध्वाक्षस्य इव काकस्य इव अस्त । वायस्योपमानहीनत्वम् । च पुनः, हे राजेन्द्र, तव वक्षः - वक्षरोषे सपत्नीरोषविषयत्वात् वक्षतीति वक्षः भुजान्तरम् । नभः इव-नभ्यति नभः, न बभस्तीति वा, गगनम् । तदिव विशालं वर्तते । अत्रोपमानाधिकत्वं चेत्येवं न विधीयते । ग्रन्थान्तरे तु स्यादेतदपि । यथाह दण्डी
न लिङ्गवचने भिन्ने न्यूनार्थाधिकताऽपि वा ।
उपमादूषणायालं तयाद्योगो विधोयताम् ।। [ का. द २.५१] इति ॥५९॥
शुनीयं गृहदेवीव प्रत्यक्षा प्रतिभासते ।
खद्योत इव सर्वत्र प्रतापश्च विराजते ॥६॥ इयं शुनी, "टुओश्विगतिवृद्धयोः श्वयतिश्वास्त्रियां"; शुनी गृहदेवी इव सदनसुरी इव, अक्ष्णोऽतिव्याप्नोति अक्षं अक्षमिन्द्रियं प्रतगता प्रत्यक्षा अध्यक्षा, प्रतिभासते । इहोपमानाधिकत्वम् । च पुनः, तव प्रतापः सवस्मिन् स्थाने; खे द्योतते खद्योतो ज्योतिः इङ्गण. इव विभ्राजते । इदं हीनोपमानं, एतादृशमपि नानेतव्यम् ॥६०॥
सफेनपिण्डः प्रौढोभिरब्धिः शार्णीव शङ्खभृत् ।
च्योतन्मदः करी वर्षन् विद्युत्वानिव वारिदः ॥६१॥ आयो दीयन्ते यस्मिन्नसावब्धिः मितद्रुः अस्ति । किंभूतः १ रफायन्ते फेना । " पिण्डीराधातुभिः," पिण्ड्यन्त इव पिण्डाः तेषां; पिण्डाः फेनपिण्डाः, तैः सह वर्तमान सफेनपिण्डः । पुनः किंभूतः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org