________________
ज्ञानप्रमोदिकावृत्तिः
हे देव भवतः पादौ भवत्पादाविवाश्रिताः ।
ते लभन्तेऽदभुतां भव्याः श्रियं त इव शाश्वतीम् ॥५५॥ हे देव, ये नराः; भातीति भवान् , तस्य भवतः तव; पादाविव चरणाविव, भवत्पादौ त्वत्क्रमौ आश्रिताः, ते नराः, ते इव भवतः पादावाश्रिता इव । अदित्यव्ययं विस्मये, अद्भवतीत्यद्भुतः, स्त्रीत्वे अद्भुता, तां चित्रां श्रियं सिद्धिलक्ष्मी, लभन्ते प्राप्नुवन्ति । किंभूताम् ? शश्वन् निरन्तरे भवा शाश्वती, तां शाश्वती यथा पूर्वस्मिन्काले । भवतः पादौ आश्रिताः भक्तिपरायणाः नराः, अद्भुतां शाश्वतीं श्रियं लभन्ते स्म । तथा आधुनिका अपि इत्याकूतम् । इह पादयोः पादयोरेवोपमानं, तेषां नराणां तेषामेवोपमानम् । तस्माद्धेतोरेषामन्योन्योपमा । उपमानस्यैकस्यैवोपमेयत्वेऽन्वयत्वमसमानोपमेयत्वम् ॥५५॥
आलोकनं च वचनं च निगृहनं च
यासां स्मरन्नमृतवत्सरसं कृशत्वम् । तासां किमङ्ग पिशितास्त्रपुरीषपात्र
गात्र विचिन्त्य सुदृशां न निराकुलोऽसि ॥५६॥ हे सले, यासां सुष्ठु पश्यन्तीति सुदृशः, तासां सुलोचनाङ्गनानां, अमृतं पीयूषं, तस्य इव अमृतवत् । तत्र तस्य इवेत्यनेन 'षष्ट्यन्तादिवाथै वतिः,' सरसम् । आलोक्यतेऽनेन आलोकनं दर्शनमुच्यते । वचनं भाषितं, निगहनमाश्लेषणं, स्मरन् अनुध्यायन् । कृशः दुर्बलोऽसि । अङ्गेऽत्यामन्त्रणे । तासां सीमन्तिनीनां । पिशि अवयवे. पिशति पिशितं पललम । अस्यते अस्त्रं रुधिरं प्रा पुरीष गथम् । ततो द्वन्द्वः -- पिशितं च असं च पुरीष च पिशितास्त्रपुरीषाणि, तेषां पात्रममत्र यत्तथाविधम् । गच्छति गात्रं वपुः, तदसारतया विचिन्त्य किं न निराकुलः स्वस्थचित्तो वर्तसे, किं न सातवान् भवसि । एषा उपमेयोपमानामालोकनादीनां समुच्चयाद् गुणक्रियायोगपद्यादुपमेयसमुच्चयोपमा ॥५६॥
कलेव चन्द्रस्य कलङ्कमुक्ता मुक्तावलीवोरुगुणप्रपन्ना ।
जगत्त्रयस्याभिमतं ददाना जैनेश्वरी कल्पलतेव मूर्तिः॥५७॥ जिनेश्वरस्येयं जैनेश्वरी, मूर्च्छत्यनया मूर्तिः, मुर्छाधातोः 'आदनुबन्धाच्च [ का. व्या. २७०६] इति डभावोराल्लोप्याविति स्थलोपः, तत्सिद्धौ, मूर्तिराहती; तनुः प्रतिभा वा विराजते । कीदृशी? कलङ्केन कलङ्काद्वा मुक्ताऽपेता कलामुक्ता । केव ? चन्द्रस्य कलेव, कलयति संख्या कला षोडशोऽशः । सम्पूर्णमण्डले रोहिणीशे कलङ्को नैकस्यां कलायाम् । अतः साऽपि कलमुक्ता । पुनः किंभूता? मूर्तिः । इयरति उखो महान्तः, ते च ते गुणाश्च मार्दवोपशमादयो धर्यादयश्च । वा तथा, तान् प्रपन्ना आश्रिता, उरुगुणप्रपन्ना । केव ? मुक्तावलीव । साऽप्युरुगुणप्रपन्ना, नूतनबृहद्दवरकप्रोता भवति । पुनः किं कुर्वाणा? जगत्त्रयस्य लोकत्रितयस्य, कामितं ददाना । केव ? कल्पलतेव, साऽपि मनोऽभीष्टं प्रयच्छति । एकस्याः भूतैरुपमानगितययोगादुपमानसमुच्चयोपमेयम् ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org