________________
चन्द्रवद्वदनं तस्याः नेत्रे नीलोत्पले इव ।
पक्वविम्बं इसत्योष्ठः पुष्पधन्वधनुर्ध्रुवः ॥ ५२॥
उद्यते अनेनेति वदनम्, तस्याः नितम्बिन्याः आस्यम् । चन्द्रेण तुल्यमस्ति चन्द्रवत्, 'तेन तुल्यं क्रिया चेद्वतिः । ' इति वतिः [ पा. अ. ५.१.११५ ]। राका कुमुदबान्धववद् वर्तत इति प्रत्ययोपमा १ । यथा - वदनमिति । कर्तृपदान्वयसामर्थ्यात् वर्तत इति क्रियापदमाक्षिप्यते, तथा इहानुदितस्यापि समुच्चयार्थाभिधायकचकारपदस्यार्थबलेनाक्षेपो युक्तः । ततः च पुनः, तस्याः प्रमदायाः, नीयते दृश्यमाभ्यामिति नेत्रे अम्बके, नीलोत्पले इन्दीवरे इव शोभते इत्यव्ययोपमा २ । च पुनः, तस्याः उष्यते तीक्ष्णाहारेण ओष्ठ, 'उषिकुषिगातिभ्यः स्थल ' इति थलू प्रत्यये । उपरितनो अधश्च ओष्ठः । बिम्ब्या फलं बिम्बं पक्वं च तद् बिम्बं च तथा पक्वबिम्बिफलं: इसति अनुकुरुते, तस्मादप्यतीवोत्कृष्टत्वात् इति तुल्यार्थोपमा ३ । किविशिष्टायास्तस्याः ? पुष्पाणि धनुर्यस्य सः पुष्पधन्वा । वा संज्ञायामिति विकल्पेनानद्वादेशे । तथात्रावाचि धनु । समानार्थोऽयं 'धन्वन्' शब्दः प्रकृत्यन्तरमस्ति । ततः पुष्पं धन्वाऽस्य पुष्पधन्वेति । सर्वधरेण धर्नाति शब्दायते ज्याघातेन, धनुः कार्मुकं, तस्य मदनस्य, धनुः । तद्वद्भ्रुवौ भ्राम्यत इति भ्रुवौ, भ्रमेर्दुः इति इ प्रत्यये; भ्रकुटी यस्याः सा तथा तस्याः । पुष्पधन्वधनुर्भुवः इति समासोपमा ४ ॥ ५२ ॥ मयभरियमाणस्स वि निच्चं दोसायरस्स ससिणो व्व ।
Jain Education International
ज्ञानप्रमोदगणिनिषद्धा
तुह विरहे तीय मुहं संकुइयं सुहय कुमुयं व्व ॥ ५३ ॥
सुभग, तव विरहे तस्याः प्रमदायाः मुखं संकुचितं त्यक्तविभूषाकं विगतमण्डनं जातम् । तुङ्ग वनितानां सम्भोग एव मण्डनं, तदभावे मण्डनान्यतरस्याप्यमण्डनत्वादित्यभिप्रायः । किविधस्य तव ? मदभृतमानसस्यापि । मदनं मदः, आनन्दसम्मोहयोः सङ्गमः, तेन भृतं संपूर्ण, मानसं चित्तं यस्य सः तथा तस्य । पुनः किंभूतम्य ? नित्यं दोषाणां रागद्वेषादिदोषाणामाकरः । आकीर्यन्ते ऽस्मिन्नित्याकर खनिर्यः सः दोषाकरः, तस्य । कस्मिन् किमिव ? शशिनो विरहे कुमुदमिव । यथा शशधरस्य विप्रयोगे कुमुदं संकुचितं भवेत् । किंलक्षणस्य शशिनः ? मृगः लाञ्छनं, तेन भृतं आश्रितं मानसं यस्य सः तथा, तथा मृगभृतमानसस्य । पुनः किंभूतस्य ? दुष्यत्यस्यां दृष्टिः दोषा, अव्ययमपि तस्यां विभावर्या, अर्थात् भासमानाः कराः पादाः यस्य सः दोषाकरः, तस्य दोषाकरस्य इति अव्ययाद्युपमाविशेषः ||५३ ||
तं नमह वीयरायं जिणं दमुद्दलिय दिढयर कसायं ।
जरस मणं व सरीरं, मणं सरीरं व सुपसन्नम् ||५४ ||
भो व्यलोकाः । वीतः गतः, रागः यस्मात् सः वीतरागः । तथा वीतद्वेषोऽपि । तं वीतरागं जगत्प्रभुं यूयं नमत, प्रह्रीभवत । कोदृशम् ? जिना: सामान्य केवलिनः तेषामिन्द्रो जिनेन्द्रः, सं जिनेश्वरम् । पुनः किंभूतम् ? उद्दलिय उत् प्राबल्येन, दलन्ति स्म उद्दलिता खण्डीकृताः, दृढतराः निबिडत्तमाः; कषः संसारः, तस्या यो लोभो येभ्यः ते, कषायाः क्रोधादयो येन सः उद्दलितदृढतरकषायः तम् । यस्य देवाधिदेवस्य शरीरं वपुः, अविक्रियाभेदेन शारदाम्बुः स्वच्छतान्तः प्रोतस्फीतत्वेन वा मनोऽतःकरणभित्र सुप्रसन्नम् । वदननयनादिप्रसन्नत्वेन सौम्याकारं विद्यते यस्य च । मनः चित्तम् । तोव्रतरशुभध्यानातपाश्रयत्वेन शरीरमिव सुप्रसन्नं प्रशान्ताकृतिवि[वि]द्यते । उपमेयोपमेयं यद्वाऽन्योन्योपमा ॥५४॥
For Private & Personal Use Only
www.jainelibrary.org