________________
५०
ज्ञानप्रमोदगणिनिन्दा नानाप्रकारा या हेला लोला । तन्मयत्वमिति मयटः । समवायपरत्वे तत्समवेतमाननं वक्त्रं यस्याः सा, तथा । स्त्रीणां सुरतेतरकाले हीरेव भूषणमिति भावः ॥४६॥ इति यमकोद्देशः ।
__ इत्थं ध्वन्यलकृति प्रोच्य साम्प्रतमालङ्काराणां परिपाट्या लक्षणमुदाहियते कविना । तत्र प्रथमालङ्कारविवक्षयेदं वृत्तं निगदिति
स्वभावोक्तिः पदार्थस्य सक्रियस्याक्रियस्य च ।
जातिविशेषतो रम्या हीनत्रस्ताभकादिषु ॥४७॥ सह क्रियया चलनादिकया चेतनया वा वर्तमानः संवर्तमान; सक्रियः तस्य, जङ्गमस्य मानवप्रमुखस्य, भक्रियस्य क्रियारहितस्य अव्यक्तचेतनस्य; म्थावरस्य शिलोच्चयप्रभृतिकस्य पदार्थस्य च, स्वभावोक्तिः सहजकथनम् । स्वरूपेडाजात्यभिधानालङ्कारों भवेत् । सा च जातिः हीने पुलिन्द्रादौ, त्रस्ते भीते, वातप्रम्पादौ । अर्भकादिषु शिशुप्रभृतिषु, ईड्यमाना सुतरां रुचिरा भवति ॥४७॥ निदर्शयति
बविली बहलकान्तिरुचों विचित्रभूर्जत्वचा रचितचारुदुकूललीलाः ।
गुरुनाफलग्रथितहारलताः सहेलं खेलन्ति खेलगतयोऽत्र वने शबर्यः ॥४८॥ अत्र अस्मिन् वने । शबर्यः - शविकारे व्रजे शवन्ति शबराः । ऋछिवटीत्यरः । स्त्रीत्वे शबर्यः पुलिन्द्रथः । सलीलं यथा स्यात्तथा खेलन्ति रमन्ते । कीदृश्यः शबर्य ? व[व]हन्ते नृत्येनो/भवन्ति बाँणि । आवलति आवलिः । वहति दाढ्यं या बहला । कञ्चते दीप्यते काञ्चि, कच्यते बध्यते वा, तेषामावली बर्दावली नीलकण्ठशिखण्डराजी, सैव बहला घना या काञ्चिः कटिमेखला । तया रोचन्ते बिभ्राजन्ते याः तास्तथा । पुनः कथंभूता ? विचित्रा विविधवर्णा, या भूर्जत्वक् तया । दुनोति शत्रुमनांसि दुकूलम् । ललनं लोला, तस्य लीला दुकूललीला । रचिता निर्मिता, चार्वी मनोहरा, दुकूललीला प्रवराम्बरक्रीडा याभिः ताः । पुनः किंभूताः १ हियतेऽनेन चित्तमिति हारः । तस्य लताः, ततो गुजाफलैः प्रथिताः हारलताः याभिः यासा वा, ताः । खेला सविलासा, गतिः यासां ताः खेलगतयः । पुलीन्द्रीणां हीनत्वेन हीनजात्युदाहरणम् ॥४८॥ अधुनावस्तेर्जातिनिदर्शनम् -
आस्तनि[ने]त्तधोरणिभीसणवयणुक्करो कुरंगच्छि ।
उल्लसियवीसभुयवणविणिवेसो दहमुहो एसो ॥४९॥ हे कुरङ्गाक्षि, हे जनकतनये । एषः दशमुखो रावणः । किंलक्षणः ? आरक्तनेत्रधोरण्यो लोहितेक्षगाल्या, भीषणवदनानां उत्करः गणः यस्य सः भैरवानननिकरः । भुज्यते एभिः भुजाः, विंशतिसंख्याकाः भुजाः विशतिभुजाः। उस्लपिताश्च ते विंशतिभुताच. ते एक वनं, तस्य विनिवेशः स्थान यः सः, अस्तीत्यध्याहार्यम् । अधिकारोऽयं अमरूशतके ४२ प्रणीतः । 33. कन्चते...बहला-इदं पा. पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org