________________
शानप्रमोदिकावृत्तिः दीव्यति न खेलति । अणन्ति इति अणवः लघिष्ठाः, तेषां अणूनां, प्राणिति एभिः प्राणाः असवः विद्यन्ते येषां ते प्राणिनः । तेषां सूक्ष्माणां जन्तूनां गणनाऽपि का? अपि तु न कापीत्यर्थः ॥४३॥1
गाङ्गाम्बुधवलाङ्गाभो मुमुक्षुध्यानगोचरः ।
पापातिहरणायास्तु सः सज्ञानो जिनः सताम् ॥४४॥ गङ्गायाः इदं गाङ्ग, गाङ्ग च तंदम्बु च गाङ्गाम्बुः । धुनात्यशोभां स धवलः; स्त्रीत्वे धवला । अभतिवृद्धिमंगभंगतीति वा । आभानं आभा, तदिव धवला अवदाता । तस्यांगङ्गस्याभा । तदाभाराढा यस्य स तथा । इयता श्रीचन्द्रप्रभः जिनः । यद्वा सामान्यवृत्तिमाश्रित्योक्तमिदम् विशेषणम् । यत. एवाष्टदलाम्बुजे परमेष्ठिपञ्चकस्मरणाधिकृतौ जिनेश्वराः धवला. स्मर्यन्ते । अत एव अभाणिमुमुक्षणां योगीश्वरार्णा, ध्यानगोचरः परमात्मदशान्वेषणरूपध्यानगम्यः । कीदृक् ? सज्ञानः । सत् सम्यक् ज्ञानं यम्य यस्माद्वाऽन्येषामिति । एतादृशः सः जिनः त्रिकोलवित् , सतां सज्जनानां, पापमघमर्दनमतिस्तदेवार्तिः व्यथा, पापातिः । ह्रियतेऽनेन हरणं, तस्याः हरणं पापार्तिहरणं, तस्मै । एनः व्यथास्फेटनाय भवति । इत्थं संयुतावृत्तौ पूर्ववदपरेऽपि भेदाः अवसेयाः ॥४४॥ संयुतासंयुताक्षरावृत्ति वक्ति
जगदात्मकीर्तिशुभ्रं जनयन्नुद्दामधामदो परिघः ।
जनयति प्रतापपूषा जयसिंहः क्ष्माभृदधिनाथः ॥४५॥ जयसिंहः, क्षमाभृत्सु अधिनाथः क्ष्माभृदधिनाथः राजाधिराजः, जयति सर्वोत्कर्षेण वर्तताम् । किंकुर्वन् ? गच्छति इत्येवंशीलं जगत् भुवनं, आत्मकीर्त्या निजश्लोकेन, शुभ्रं अवदातं, जनयन् उत्पादयन् । पुनः किंभूतः ? धीयते धाम मनितिमन् , दामायाः उत्क्रान्तं उद्दाम उच्छंखलं, धाम ज्योतिः यस्य सः तथा । परिहन्यते अनेन परिघः । दारुमयः लोहादिमयो वा अर्गलारूपः दोरेवदोर्दण्डः एव परि यस्य सः, तथा । उद्दामदामा चासौ दोः परिघश्च तथा । प्रतापः दुरन्तारित. मस्तिरस्कारितया पूषेव रविरिव । प्रज्ज्वलत्तेजस्त्वातिशयात प्रतापेन पूषेवेति वृत्त्यन्तरव्याख्याने । प्रतापपूषा सहस्रकरसमानप्रताप इत्यर्थः ॥४५॥ संयुतामयुताक्षरावृत्ति प्रकटयति
मामाकारयते रामा सा सा मुदितमानसा ।
या या मदारुणच्छाया नानाहेलामयानना ॥४६॥ सा सा रामा प्रमुदितमानसा तुष्टचित्ता सती मां आकारयते शब्दयति । या या मदेन सरापानेन, अरुणा ताम्रीभूता, तनुच्छाया कान्तिर्वा यस्याः सा । "छाया बनातपे कान्तौ प्रतिबिम्बार्कजाययोः" इति वैजयन्ती [६.२.१३] । यद्वा मदेनाहङ्कारेण, अरुणच्छाया नयनादिषु लोहितीभूतत्वात् । यदुक्तं.... हाहि त्वा लज्जां समाकृष्टा मदनेन मदेन वा ।
अभिसारयते कान्तं सा भवेदभिसारिका ॥इति॥४ 31. अधुना...निर्दयते-इद पा. पुस्तके अधिकम् । 32. लोक एषः शु. ति १.८० इत्यनेन प्रायः समानः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org