________________
४८
- चरणेषु प्रत्येकमाद्यावसानयमकं यथा
वरणाः प्रसूननिकरावरणा मलिनां वहन्ति पटलीमलिनाम् ।
तरवः सदात्र शिखिजातरवः सरसश्च भाति निकटे सरसः ॥ ४० ॥ ०० अस्मिन् शिखरिणि वरणाः पादपविशेषाः सन्ति । कथंभूताः ? प्रस्तूयन्ते स्म प्रसूनानि 'सुयत्यादीति' [ हे व्या. ४.२.७० ] तस्य नत्वम् । तेषां कुसुमानां निकरः गणः, स एव आवरणं आत्रियते आवरणं आच्छादनं, येषां ते तथा, तरवः । तरन्त्यापमेभिस्तरव, 'लभृत्रु इत्यु: '; महीरुहाः । अलिनां- अलं वृश्चिकलाङ्गुलं विद्यते येषां ते अलिनः भ्रमराः । अपिः प्रणीतवाँश्च भृङ्गवृश्चिकयोः अलीति रभसः, तेषां भुङ्गानां, पटति पटलं, स्त्रीत्वे पटली, तां राजीं वहन्ति । किंलक्षणां ? मलिनां श्यामलाम् । अत्र अस्मिन् शैले, सरसः तडागस्य, निकटे अन्तिके, शिखिभ्यः जातः यः श्वः मयूरसंभूतः शब्दः भाति । किंविशिष्ट : ? शिखिजातरवः सरसः कोमलः ||४०||
क्रमद्वितयावसानयमकं निदर्शयति
यथा यथा द्विजिह्वस्य विभवः स्यान्महत्तमः । तथा तथास्य जायेत स्पर्धयेव महत्तमः ॥४१॥
यथा यथा द्विजिह्वस्य दुर्जनस्य विभवः अर्थः, अतिशयेन महान् महत्तमः अतीवोत्कृष्टः भवेत्, तथा तथाsस्यापि शुनस्य विभवस्य स्पर्धयैव संघर्षेणैव; महयते महत् विपुलं तमः अज्ञानं, क्रोधो व उत्पद्येत । एतेन पृष्टम [मा]सादनक्रोधोद्भुत [ धूत ?] नितान्तकुटिलस्वभावत्वात् खलस्य, पन्नगस्येव द्विजत्वमिति ख्यापितम् । इत्थमितरदप्युदाहर्तव्यम् ॥ ४१ ॥
संवृतावृत्तिर्यथा
ज्ञानप्रमोद गणिनिबद्धा
दास्यति दास्यति कोपादास्यति सति कर्कराव्शापम् ।
भवति भवति हृह्यनर्थो भव तिमितस्तेन बटुक त्वम् ॥४२॥
"
दासी चेटी, अतिकोपात् अनीवशेषात् भवति त्वयि, शपनं शाप:, तमाक्रोशं दास्यति । ततस्तस्माछापादनर्थो भवति । हि निश्चितम् । तेन हेतुना हे बटुक, त्वं तिम्यति स्म तिमितो निष्कम्पो भत्र, चपलत्वं मा कार्षीरित्यर्थः । किं कुर्वति ? आसमन्तात्, कर्करान् आस्यति क्षिपति सति ||४२||
मध्यान्तयमकं निरूपयति
Jain Education International
कुलं तिमिभयादत्र करेणूनां न दीव्यति ।
न दीव्यति करेणूनां प्राणिनां गणनाऽपि का ॥४३॥
अस्मिन् दीव्यति करे तदिन्याः आम्थाने, करेणूनां कुञ्जराणां कोलति संस्त्यायति । ताम्यन्ति स्थले तिमयः, स्तिम्यन्ति वा तेषां भयं भी, तिमिभयम् । तस्माज्जुष्टसाध्वसान् न
30. ने. नि. ७.२६
For Private & Personal Use Only
www.jainelibrary.org