________________
ज्ञानप्रमोदिकावृत्तिः
४७ सिन्धुर्मदोऽस्त्येषामिति वा मतङ्गजाः, तेषां उचिता अर्हा; 'लतिः सौत्रोधानुरुद्दिष्टः': लॉन्ति इति एचाद्यच् ; लताः शाखाः वा वल्लयः, ताः अग्राः श्रेष्ठाः सल्लक्यश्च; सस्कृत्य लक्यन्ते स्वाद्यन्ते गजैः मल्लक्यः गजप्रियाः, ताभिः उपलक्षिताः । सिन्धुः स्यन्दतेः, सिन्धुः स्यदेः सम्प्रसारणं, धश्चेत्यु । मम्प्रसारणं धातोर्धश्चान्तादेशः, तत्सिद्धौ तटिनी, तया रोचितं विभाजितम । पुनः कीडम ? कंद्यन्ने इष्यन्ते कन्दः मूलविशेषाः, तैः राजितं शोभितम । पुनः कथंभूतम् ? कन्दराजितगृहश्रि कन्दन्ते विक्तुवन्ते आसु कन्दराः । के हणन्ति कन्दाः सन्त्यत्र वा । ताभिः दरीभि जिता गृहश्रीः सदनाभिख्या येन तत्तथा ॥३७॥ प्रत्येकमहिद्वितयान्तर्यमकं यथा
वसन्सरोगोऽत्र जनो न कश्चित्परं सरोगो यदि राजहंसः । गीतं कलं को न करोति सिद्धः शैले कलङ्कोज्झितकाननेऽस्मिन् ॥३८॥
अत्रास्मिन्नद्रौ कः सिद्धः ? त्रिदशविशेषः । कलं कलते कलः, कं सुखं लाति वा, तम् । मधुरं गीत न करोति, अपि तु समस्तोऽपि करोत्येव । कीदृशैः ? किरन्ति सन्देहं कलङ्काः विषतरत्रः, तैरुज्झितमप नोतं काननं यस्मिन् स तथा, तस्मिन् सकलोत्तमेऽत्र गिरौ वसन् । सरोगः -- रुजति रोगः, तेन सह वर्तमानः । सपाटवः कश्चन जनो न विद्यते । यदि परं केवलं, सरोगः । राजहंस:-हसाना राजा राजहंसः, अतिलोहितचञ्चुचरणः पक्षिविशेषोऽस्ति । सरसि कासारे, गच्छति स्म सरोगः ।
क्रमद्वयावसानयमकं यथाजहुर्वसन्ते सरसीं न वारणाः बभुः पिकानां मधुराः नवा रणाः । रसं न का मोहनकोविदारकं विलोकयन्ती बकुलान् विदारकम् ॥३९॥ अत्रास्मिन गिरी, वारणाः स्तम्बरमाः, वसन्ते वसत्यस्मिन् मुखं, वस्ते भुवं बा वसन्तः तस्मिन् । पिकबान्धवे सरसीं सरति जलमत्र 'असित्यसि' [हे. उ. ९५२] गौरादित्वात् इयां सरसी। वाचस्पतिस्तूक्तवान् -- 'सरसी तु महासर इति ।, तां न जडू पनिन्युः । पिकानां परपुष्टानां, मधुराः श्रवणसातकराः, नवाः नूतनाः, रवाः ध्वनयः, बभुः विरेजिरे । काः? नायिकाः । मोहने निधुवने, कोविदाः चतुराः, चतुरामोहनकोविदाः । मुरतविचक्षणा गतधवा काचन नितम्बिनी । बकुलान् []कन्ते पुष्पः बकुलाः, तान् केमरान् विलोकयन्ती, पश्यन्ती सती । कं रसं, आर प्राप । अपि तु न कमपि रसं प्राप्तवती । किं च प्रियसन्निधानमेव सर्व साफल्यकारणमिति भावः । व्याख्यानान्तरे- के रस, न आर न आसादयामाप । अपि तु आसादयामास एव । कथम् ? विगताः दारकाः सुता; यस्मिन् तद्विदारक निस्तनूजं यथा भाति तथा । अजातापत्यायाः सम्भोगशक्तत्वात् ।।३९॥
29: ने. नि. ६.१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org