________________
ज्ञानप्रमोदिकावृत्तिः
चरणान्तर्वति यमकं यथानेमिर्विशालनयनो नयनोदितश्रीरभ्रान्तबुद्धिविभवो विभवोऽथ भूयः । प्राप्तस्तदेति नगरान्नगराजि तत्र सूतेन चारु जगदे जगदेकनाथः ॥३२॥ अत्यनंतरं भूयो मुहुर्मुहुः श्रीमदरिष्टनेमिः । सूतेन-सुनोति इति सूतः, सुवति इति वा, सारथिः; तेन चारु सुन्दरं यथा स्यात्तथा, जगदेऽभाणि । किंभूतः ? विशाले नयने यस्य सः विशालनयनः । पुनः किंलक्षण ? नयेन सदाचारवर्मना, नोदिता उदीरिता श्रीः यत्र, स तथा । पुनः किंभूतः ? अभ्रान्तेति-बुद्धयतेऽनया बुद्धिः ।
बुद्धिः सर्वत्र सम्पन्ना बुद्धिः संसारतारिणी ।
बुद्रेरगोचरं नास्ति तस्माद्बुद्धिर्गरीयसी ।।इति १ ॥ अभ्रान्ता तुर्या पुमा, अव्यभिचारिणी सत्या, सा चासौ बुद्धिश्च अभ्रान्तबुद्धिः; सा एव विभवो द्रव्यं यस्य सः, अभ्रान्तबुद्धिविभवः । पुनः कोहगू ? विगतो भवः संसृतिरूप; यस्मात् सः विभवः । नगरात् द्वारावत्या द्वयात्, तत्र नगै: राजते नगराट् , तत्र रेवतकशिख रेणि तदा प्राप्तः । कथंभूतः ? जगतः त्रैलोक्यस्य एकोऽद्वितीयो नाथो योगक्षेमकारित्वात् स्वामो ॥३२॥ पादावसानयमकं यथा
यदुपान्तेषु सरलाः सरला यदनूच्चलन्ति हरिणा हरिणाः ।
तदिदं विभाति कमलं कमलं मदमेत्य यत्र परमाप रमा ॥३३॥ * तदिदं प्रत्यक्षगतं कायतिकं तोयं, अलं अतोवतरां, विभाति विभ्राजते । उप समीपः, अन्तोऽन्य उपान्तं. तत्रभवानि उपान्तिकानि, यस्याम्भसः उपान्तिकानि यदुपान्तिकानि, तेषु स्थानेषु सरलाः अकुटिलाः, सरलाः देवदारवः तरवः सन्ति तथा । यदुदकमनुलक्षी[क्ष्यी ]कृत्य हरिणा गन्धवहेन, सत्रा हरिणा, गोतेन हियन्ते हरिणाः सारङ्गाः; उचलन्ति उत् प्राबल्येन पर्यटन्ति । यत्राम्बुम्ब्रूि ?]नि रमा श्रीः, एत्य, परं प्रकृष्टं कमलं पदमाप । मदमिति पाठे, यस्मिन् कुशेशये पद्मा आगत्य पर पदं लेभे ॥३३॥
असंयुतावृत्तौ यथाकान्तारभूमौ पिककामिनीनां कां ताराचं क्षमते स्म सोढम् । कान्ता रतेशेऽध्वनि वर्तमाने कान्तारविन्दस्य मधोः प्रवेशे ॥३४॥ काम्यते इति कान्ता नितम्बनो । रतेशे-तं रसगं, तत्रेशः प्रभू भु.] रतेशः तस्मिन् , धवे । अध्वनि वर्मनि, वर्तमाने सति; मन्यते । मधुः मौहनिकः, तस्य प्रारम्भे । कान्तारभूमौ-काम्यते कान्तारं गहनं, भवत्यस्यां सर्व भूमिः । 'कृभूभ्या मितिकितिमि प्रत्यये भूमिः, तस्य भूमिः कान्तारभमिः, तस्या विपिनक्षीणौ। पिककामिनोनां-पिबन्ति चूतरसं पिका., अपिहिताः कायन्ति । 'उपसर्गत्वा तो डः' इति कलकंठाः । प्रतिशब्दितकामाः कामिन्यः, कामः शृङ्गाररूपो मन्मथोऽस्यामिति वा, 23. ने. नि ६.५i 24. ने. नि. १.२५ 25, ने.नि. ६.४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org