________________
ज्ञानप्रमोदगणिनिबद्धा संयुतान्त्यपादयमकं निरूपयति
द्विषामुद्धतानां निहंसि त्वमिन्द्रः ।
मुदं भो धराणामुदम्भोधराणाम् ॥२५॥ भोः काश्यपीपाल पुरन्दर । उद्धतानां उद्धन्यन्ते स्म उद्धताः प्रखराः, यद्वा हन्तेर्गत्यर्थोक्तेः उत्तरा दुत्प्लुत्य हताः गताः उद्धताः । तेषां द्विषां रिपूणां त्वं मुदं संमन, निहंसि प्रोज्जासयसि । केषां कः इव ? धराणां इन्द्रः इव । ध्रियन्ते धराः क्षितिधराः, तेषाम् । यथा 'इन्द्रो धराणां सानुमतां मुदं निहन्ति' । कथंभूतानाम् ? उत् ऊर्य अभ्भोधरो येषां ते, तथा तेषाम् उदभ्भोधराणां उन्नतविद्युत्वताम् । छन्दोऽप्येतत् षडक्षरम् ॥२५॥ आद्यमध्यमगोचरमन्तरालावसानगोचरं च दर्शयति
विभाऽतिरामा परमारणस्य विभाति रामा परमा रणस्य ।
सदैव तेऽजोर्जित राजमान सदैवतेजोर्जितराजमान ॥२६॥ हे पार्थिवेश ! ते तव, रणस्य संग्रामस्य, विभानं विभा, प्रकाशः। सदैव विभाति द्योतते । कीदृशस्य रणस्य ? परमारणस्य । परशब्दस्य रिपुवचनार्थत्वात, परेषां शत्रणां, मारणं प्रमाथनं यस्मिन् सः, तथा तस्य । किंलक्षणा विभा ? अतिरामारामं श्रीरामचन्द्रं अतिक्रान्ता अतिरामा; अतिक्रान्तो रामो यया वा । पुनः कीदृशी? परमापरैः मीयते या सा परमा; परा प्रकृष्टा, मा लक्ष्मीः, शक्तिः, शोभा वा यस्याः सा इति वा । पुनः किंभूता? रामा-रमते मनोऽत्र रामा रमणीया। हे अजोर्जितराजमान अजवत् गोविन्दवत्, ऊर्जितेन शौर्यण, राजमानो विभ्राजमानः, तदामन्त्रणे तथा । हे सदैव तेजोर्जितराजमान ! देवस्य आत्मन;, इदं पूर्वकामदेवतं देवमेव प्रबलमिति वचनात् तदेव प्रबल भागधेयं, तेन सह वर्तमानम् । सदैवं तेजयतीति तेजः, उत्कटत्वं प्रभुत्वशक्तिजं, ततः सदैवं च तत्तेजः च तथा; तेनार्जितं उपार्जितं, राजसु मध्यलोकेशेषु, मानं पूजा, लक्षणं सन्मानं येन सः, तथा तस्य सम्बोधने ॥२६॥ अधुना संयुतावृत्तौ प्रथमान्तरालचरणयमकं रैवतशैलेडाप्रारम्भपूर्वकमाचष्टे
सारं गवयसानिध्यराजिकाननमग्रतः ।
सारङ्गवयसां निध्यादारुणं शिखरे गिरेः ॥२७॥ गिरेः गोर्यते गिरिः, 'नाम्युपान्त्येतिकिदिः, [हे. व्या. ५.१.५४ ], तस्योज्जयन्तस्य शिरवरे । शाखति व्याप्नोति गगनं शिखरम् । “शाखेरिदेतौ चातः" हे. उ. ४००] इत्यपरः, तस्मिन् शुङ्गे । केन जलेन, आननं प्राणनं अस्य तत् काननं वनम् । अग्रतः पुरस्तात, भातीत्यध्याहार्यम् । कीदृक् काननम् ? सारं सरति कालान्तरं, सारं श्रेष्ठम् । पुनः किंभूतम् ? गवन्ते गवयाः, 'कुगुवलीत्यय' [हे. उ. ३६५] गवाकृतयो वनगवाः, तेषां सन्निधिरेव सान्निध्यम् । तेन सामीप्येन राजते इत्येवंशीलं गवयसान्निध्यराजि । पुनः किलक्षणम् ? सरन्ति सारङ्गाः, 'सृवृनृभ्यो णित् ' इत्यड्गः [हे. उ. ९९ ],' सारं गच्छन्तीति वा । वयन्ते वयसः, 'असित्यसू ,' [हे. उ. ९५२ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org