________________
ज्ञानप्रमोदिकावृत्तिः इतरा असंयुताऽमिलिता! षोढा यमकं स्यात् । षविधमपि तत् त्रिविधं- एकमादिविषयं चरणस्यादिमाक्षरगोचरं, द्वैतीयीकं18 मध्यविषयं चरणस्यान्तरावर्त्यक्षरगोचरं, तृतीयं अन्तविषयं चरणस्थावसानाक्षरगोचरम् । एतावता स्पष्टाः यमकस्य अष्टादशप्रकाराः स्युः । वर्णप्रभृतीनां संपृक्तासंपृक्तत्वेनापरेऽपि भूयांसो भेदाः भवन्ति । किलक्षणानां पादपदवर्णानाम् ? भिन्नवाच्यानाम् । भिन्नं पृथक्, वाच्यं अर्थः येषां ते भिन्नवाच्याः, तेषां तथा । एतद्विशेषणार्थानुपात्यधिकारोऽस्ति काव्यप्रकाशे
अर्थ सत्यर्थभिन्नानां वर्णानां सा पुनःश्रुतिः ।
यमकं पादतद्भागवृत्ति तद्यात्यनेकताम् ॥१॥ [९.८३] इति इगता लाटानुप्रासस्य यमकत्वं निराकृतम् , तस्मिन्नर्थस्य च एकत्वात् । अतो निदर्शनाधिकत्वं तथा यमकभेदलक्षणं आचार्यदण्डिनोक्तम्
अव्यपेतव्यपेतात्मा या वृत्तिवर्णसंहितेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥१॥ [का द. ३.१] एकद्वित्रिचतुःपादयमकानां प्रकल्पना । आदिमध्यान्तमध्यान्तमध्यपादाधसर्वतः ॥२॥ [का.द. ३२ अत्यन्तं बहवस्तेषां भेदाः सम्भेदयोनयः ।
सुकरा दुष्कराचैव दृश्यन्तेऽत्र केचन इति ॥३॥ ॥२२॥ [का.द. ३.३] अथ यमकानि दिदर्शयिषुः प्रथमं संयुतादिविषयकपादयमकमुदाहरति
दयां चक्रे दयां चक्रे
सतां तस्माद्भवान्वित्तम् ॥२३॥ में भाग्यमस्त्यस्य भवान, स्वं यस्माइयांचक्रे करुणां विदधे, तस्मात्कारणात् सतां सज्जनाना, विसं विद्यते लभ्यते; वित्तं धनं, प्रतीतमितिक्तस्य नत्वाभावः । स्वापतेयं दयां चक्रे ददापित्यर्थः । चतुरक्षरमेतच्छन्दः ॥२३॥ संवृता[तमध्यपादयमक व्याचष्टे ।
यशस्ते समुद्रान् सदारोरगारेः ।
सदा रोरगारेः समानाकान्ते ॥२४॥ हे पृथिवीश, ऋते तव यशः, सत्श्रेष्ठभूतं; समुद्रान्-समुदन्ति उक्लियन्ति चन्द्रोदये आपः एभ्यः इत्यपादाने, स्फायितं 'चिवंचीत्यादिना रक्,' समुद्राः, तान् मितद्न् । आरेति गती प्रापणे च, इत्यस्य धातोः लिटि रूपं जलनिधिपारं प्राप । किलक्षणस्य ते ? उरगारेः तार्क्ष्यस्य, समाना सहक, अकान्तिः तनु छत्रियस्य सः तथा, तस्य काञ्चनगौरस्य इत्यर्थः । पुनः किंविशिष्टस्य ? सदा सर्वदा. रोरं दारिदयं गच्छन्ति प्राप्नुवन्ति इति सदारोरगाः, अश्यो द्विषो यस्य सः, तथा तस्य । पाक्षरमिदं छन्दः । ययौ सोमराजीति लक्षणात् ॥२४॥ 15. द्वितीयक' -पा.पु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org