________________
ज्ञानप्रमोदिकावृत्तिः सोऽनुप्रास नाम शब्दालङ्कारो विवक्ष्यते । यथाह भट्टिबाणः
एकदिश्यन्तरितं व्यञ्जनमविवक्षितस्वरम् ।
बहुशः आवर्त्य तन्निरन्तरमथवा यदमावनुप्रासः ॥१॥ [ रु. का. २.१८ ? ]11 किविशिष्टोऽनुप्रातः ? स्फुरन्तः स्फूर्त्या द्योतमानाः गुणाः औदार्यप्रमुखाः यस्मात् स स्फुरद्गुणः । अनुपासेन हि गुणाः द्योत्यन्ते । स चानुप्रासो द्विविधः छेकानुप्रासो लाटानुप्रासश्च । छेकाश्छेकिलादेश्यां छइल्लालट परिभाषणे । ल्टन्ति भूरितरं भाषन्ते लाटाः, लाटजनपदोद्भवाः जनाः, तेषामनुपासो । तयोर्मध्ये यश्छेकानुप्रासः सोऽतत्पदो भवेत् । तान्येव प्रथमोदितानि पदानि यस्मिन् सः तथा । न तत्पदः, अतत्पदः, भिन्नपदः इत्यर्थः । च पुन, लाटानुप्रासः तत्पदः स्यात् ॥१७॥ छेकानुप्रासमुदाहरति
अलं कलङ्कशङ्गार करप्रसरहेलया ।
चन्द्र चण्डीशनिर्माल्यमसि न स्पर्शमई सि ॥१८॥ काचिद्वियोगिनीतमी रमणमभिधत्ते । हे चन्द्र, कीर्यन्ते कराः पादाः, तेषां प्रसरः विस्तरण, तस्य हेला लोला, तया इति अलं पूर्यताम् । वारणार्थयोगे तृतीया । किरति सन्देहं कलङ्कः, रसेषु शृङ्ग उत्कर्ष इयति इति शृङ्गारः, कला एव शङ्गारो यस्य सः, तथा तदामन्त्रणे हे कलशृङ्गार' । यत एत्रत्वं च डोश नाल्यम् । चण्डो अत्यन्तकोपनत्वात् दुर्गा, तस्याः ईशः नाथः चण्डोशः गिरिशः । तस्य निर्माल्यं वर्तसे, अत एव स्पर्श नाहसि, स्प्रष्टुमुचितो न भवसि । इतरदपि महेशमाल्यं न स्पृश्यते । अरस्य कलङ्कः दोषः, भवतः अतीव निकृष्टस्य एव भूषणम् ॥१८॥ अथ लाटानुप्रासः पदैरुदाहियते
रणे रणविदो हत्वा दानवान्दानवद्विषा ।
नीतिनिष्ठेन भूपाल भूरियं भूस्त्वया कृता ॥१९॥ कश्चन जनार्दननुतिं व्यनक्ति । हे भूपाल श्रोणिपते, इयं भूः वसुन्धरा; त्वया सत्या, भूः-भवत्यस्यां सर्वमिति भूः धनधान्यादीनामुत्पत्तिस्थानं व्यधायि । किं कृत्वा ? रणे सङ्गरे समर रसिकान दानवान् । दतोपत्यानि दानपाः, तान् कंलादीन हत्वा विध्वस्य । किंविशिष्टेन त्वया ? दानवद्विषा । दानवान द्वेष्टीति दानवद्विद, तेन दैत्यारातिना । पुनः कीदृशेन ? नीतौ राजदण्डादिनीतिशास्त्रे निष्ठः तत्परः, तेन ॥१९॥ अथ लाटानुप्रासं पादेन निदर्शयति
त्वं प्रिया चेचकोराक्षि स्वर्गलोकमुखेन किम ? ।
त्वं प्रिया यदि मे न स्याः स्वर्गलोकसुखेन किम् ? ॥२०॥ हे चकोरानि, चकोराक्षिणी इव अक्षिणी यस्याः सा चकोराक्षी । उष्ट्रमुखादित्वात् उपमानवाच्यक्षिशब्दस्य बहुव्रीहौ लोपे, तदामन्त्रणे च । त्वं प्रिया भार्या चेत् यदि, मे मम भवेः, तर्हि स्वर्ग लोकस्य सुख सातं, तेन किं विधानि ? चेत् त्वं प्रिया संभोगविदग्धा मे न स्याः तदापि तेन किम ? न किंचिदिवेत्यर्थः ॥२०॥ 11. रु.का. २.१८-कारिकैषा श्लोकस्यास्य प्रायः समाना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org